नलजलमित्रेभ्यः मनरेगायाः माध्यमेन पारिश्रमिकप्रदानाय केन्द्रीयमन्त्रिणः अनुरोधः
नवदिल्ली, २७ अगस्त (हि.स.)। उत्तराखण्डस्य सिञ्चन, लोकनिर्माण, ग्रामीणनिर्माण, पर्यटन, धर्मस्व एवं संस्कृतिमन्त्री सतपालमहाराजः गुरुवासरे केन्द्रीयकृषि-कृषककल्याण-ग्रामीण-विकासमन्त्रिणा शिवराजसिंहचौहानेन सह मिलित्वा नलजलमित्रेभ्यः मनरेगायाः माध्यमेन
मंत्री सतपाल महाराज ने गुरुवार को केंद्रीय कृषि एवं किसान कल्याण व ग्रामीण विकास मंत्री शिवराज सिंह चौहान से भेंट करते।


नवदिल्ली, २७ अगस्त (हि.स.)। उत्तराखण्डस्य सिञ्चन, लोकनिर्माण, ग्रामीणनिर्माण, पर्यटन, धर्मस्व एवं संस्कृतिमन्त्री सतपालमहाराजः गुरुवासरे केन्द्रीयकृषि-कृषककल्याण-ग्रामीण-विकासमन्त्रिणा शिवराजसिंहचौहानेन सह मिलित्वा नलजलमित्रेभ्यः मनरेगायाः माध्यमेन नियमानुसारं पारिश्रमिक- कार्यदिवसान् च प्रदातुम् अनुरोधं कृतवान्।

नवदिल्लीस्थिते कृषिभवने सम्पन्ने साक्षात्कारे महाराजेन जलजीवन-अभियानस्य अन्तर्गतं निर्मितानां पेयजलसम्पत्तीनां सञ्चालनम्, अनुरक्षणं, दीर्घकालीनस्थायित्वं च सम्बद्धानां विविधविषयाणां विषये चर्चा कृता।

महाराजः केन्द्रीयमन्त्रिणं सूचितवान् यत् नलजलमित्रकार्यक्रमस्य अन्तर्गतं ग्रामीणक्षेत्रेषु पेयजलयोजनानां सञ्चाल-नाय अनुरक्षणाय च स्थानीयस्तरे कुशल-मानवसंसाधनस्य निर्माणं क्रियते। तथापि प्रशिक्षणकार्यक्रमे ग्रामीणयुवानां स्थानीयजनानां च अपेक्षितभागग्रहणं सुनिश्चितं कर्तुं व्यावहारिकाः कठिनताः सम्मुखीभवन्ति।

सः अवदत् यत् अधिकांशाः सम्भाविताः प्रतिभागिनः दैनिकमजदूर्याः, कृषिकार्यस्य अन्यजीविकोपार्जनकार्याणां च आश्रिताः सन्ति। प्रशिक्षणकार्यक्रमे सम्मिलिते सति तेषाम् आयः प्रभावितः भवति, येन ते प्रशिक्षणकार्यक्रमे भागं ग्रहीतुं परिहरन्ति।महाराजः विचारं दत्तवान् यत् नलजलमित्रकार्यक्रमस्य पात्रप्रति-भागिभ्यः प्रशिक्षणावधौ जायमानां जीविकाहानिं दृष्ट्वा मनरेगया सह नियमानुसारं समन्वयस्य माध्यमेन अनुमतं पारिश्रमिकं कार्यदिवसान् च प्रदातुं केन्द्रसर्वकारः विचारं कुर्यात्। अनेन अधिकसंख्यायां स्थानीयजनान् प्रशिक्षितुं शक्यते तथा ग्रामीणक्षेत्रेषु पेयजल-योजनानां सञ्चालनं अनुरक्षणं च सुदृढं भविष्यति।

सः अवदत् यत् स्थानीयस्तरे प्रशिक्षितं मानवसंसाधनं उपलब्धं भवति चेत् जलजीवन-अभियानस्य अन्तर्गतं निर्मितानां पेयजलसम्पत्तीनां उत्तम-सञ्चालनम्, अनुरक्षणं, दीर्घकालीन-स्थायित्वं च सुनिश्चितं कर्तुं साहाय्यं भविष्यति।

केन्द्रीयमन्त्री शिवराजसिंहचौहानः महाराजस्य विचारेण सहमतिं प्रकटयन् अस्मिन् विषये शीघ्रं कार्यवाहीं कर्तुम् आश्वासनं दत्तवान्। सः स्वाधीनस्थेभ्यः अधिकारिभ्यः आवश्यकाः निर्देशाः अपि प्रदत्तवान्।

Hindusthan Samachar / Divya Ranjan