श्रावणपूर्णिमायां सरयूतटे श्रद्धालूनां महान् सम्मर्द: समुपस्थित:
अयोध्या, २८ अगस्तमासः (हि.स.)। श्रावणपूर्णिमायां सरयूं स्नात्वा नागेश्वरनाथमन्दिरे भगवत: भोलेनाथस्य जलाभिषेकं कर्तुं श्रावणमासस्य अन्तिमे दिने श्रावणपूर्णिमायां रक्षाबन्धनपर्वणि च अयोध्यायां श्रद्धालूनां महान् सम्मर्द: समुपस्थित:। शुक्रवासरे बहुसंख
मंदिर में अभिषेक को उमड़े श्रद्धालु


अयोध्या, २८ अगस्तमासः (हि.स.)। श्रावणपूर्णिमायां सरयूं स्नात्वा नागेश्वरनाथमन्दिरे भगवत: भोलेनाथस्य जलाभिषेकं कर्तुं श्रावणमासस्य अन्तिमे दिने श्रावणपूर्णिमायां रक्षाबन्धनपर्वणि च अयोध्यायां श्रद्धालूनां महान् सम्मर्द: समुपस्थित:। शुक्रवासरे बहुसंख्यकाः श्रद्धालवः पवित्रायां सरयूनद्यां श्रद्धया स्नानम् अकुर्वन्, दानं च अयच्छन्। सरयूस्नानानन्तरं श्रद्धालवः प्राचीनं प्रसिद्धं नागेश्वरनाथमन्दिरं प्राप्य भगवत: शिवस्य जलाभिषेकम् अकुर्वन्। महान्तं सम्मर्दं दृष्ट्वा आरक्षक-प्रशासनेन श्रद्धालवः समूहशः नागेश्वरनाथमन्दिरस्य दिशि प्रेषिताः। श्रद्धालून् सुव्यवस्थितरूपेण मन्दिरं प्रापयित्वा सुविधापूर्वकं जला-भिषेकः कारितः।

प्रबन्धकः सभापतितिवारी सहप्रबन्धकः प्रभाकरद्विवेदी च अवदताम् यत् नागेश्वरनाथमन्दिरस्य स्थापना महाराज-कुशेन कृता आसीत्, येन इदं मन्दिरं धार्मिकश्रद्धायाः प्रमुखं केन्द्रम् अस्ति। श्रावणपूर्णिमया सह अयोध्यायां प्रचलितस्य श्रावणमेलापकस्यापि अद्य समापनं भवति। श्रावणमेलकस्य अवधौ जिलाप्रशासनेन श्रद्धालूनां सुरक्षायै सुविधायै च व्यापकाः व्यवस्थाः कृताः आसन्।

श्रद्धालवः श्रावणस्य धार्मिकमहत्त्वं वर्णयन्तः अवदन् यत् अयोध्यां प्राप्य सरयूस्नानं, नागेश्वरनाथमन्दिरे जला-भिषेकं, रामललायाः हनुमानगढ्याः च दर्शनं च तेषां कृते सौभाग्यस्य विषयः अस्ति। श्रद्धालवः अवदन् यत् ते स्वान् भाग्यशालिनः मन्यन्ते यत् श्रावणमासस्य अन्तिमे दिने अयोध्यायां पूजार्चनं कुर्वन्ति तथा च श्रावणमेलापकस्य सकुशलं समापनं भवति।

Hindusthan Samachar / Divya Ranjan