असमस्य मुख्यमंत्री हुतात्मने तिलक डेका इत्यस्मै अददात् श्रद्धांजलिम्
गुवाहाटी, 28 अगस्तमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसरमा शुक्रवासरे शहीदस्य तिलक-डेकस्य पुण्यतिथौ तस्मै भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। मुख्यमन्त्रिणा सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तं यत् देशमातरि अगाधप्रेमं धारयन्तः
The Illustration shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 28 अगस्तमासः (हि.स.)।

असमस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसरमा शुक्रवासरे शहीदस्य तिलक-डेकस्य पुण्यतिथौ तस्मै भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्।

मुख्यमन्त्रिणा सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तं यत् देशमातरि अगाधप्रेमं धारयन्तः असमस्य अनेकाः वीरसुपुत्राः स्वजीवनस्य चिन्ताम् अकृत्वा भारतस्य स्वातन्त्र्यार्थं स्वसर्वस्वं समर्पितवन्तः। तेषां देशप्रेमस्य प्रेरणादायिन्यः गाथाः अद्यापि अस्मान् गौरवान्वितान् कुर्वन्ति।

तेन उक्तं यत् हुतात्मा तिलक-डेका भारतत्याग-आन्दोलने सक्रियतया भागं गृहीतवान् आसीत् तथा च बरपूजियायां ब्रिटिशसैनिकानां गोलिकाप्रहारेण स्वप्राणान् राष्ट्राय समर्पितवान्। मुख्यमन्त्रिणा तस्य पुण्यतिथौ तस्मै गाढा श्रद्धाञ्जलिः अर्पितः।

----------

Hindusthan Samachar / Dheeraj Maithani