Enter your Email Address to subscribe to our newsletters

पटना, 28 अगस्तमासः (हि.स.)। बिहारस्य पूर्वमन्त्री उपेन्द्रनाथवर्मणः पुण्यतिथेः अवसरे शुक्रवासरे श्रीकृष्णस्मारकभवनपरिसरे राजकीयसमारोहः आयोजितः।समारोहे बिहारस्य राज्यपालः लेफ्टिनेन्ट् जनरल् (निवृत्तः) सैयद् अता हसनैनः तथा मुख्यमन्त्री सम्राट् चौधरी च उपेन्द्रनाथवर्मणः चित्रपटे पुष्पाञ्जलिं समर्प्य तं नत्वा श्रद्धाञ्जलिं समर्पितवन्तौ।
अस्मिन् अवसरे राज्यसर्वकारस्य अनेकाः मन्त्रिणः, जनप्रतिनिधयः, राजनैतिकाः सामाजिकाश्च कार्यकर्तारः तथा स्वर्गीय-उपेन्द्रनाथवर्मणः परिजनाः उपस्थिताः आसन्। सर्वेऽपि तस्य चित्रपटे माल्यार्पणं कृत्वा तस्मै सम्मानं समर्पितवन्तः।
समारोहे सहकारितामन्त्री रामकृपाल यादवः, विज्ञान-प्रावैधिकीतन्त्रशिक्षामन्त्री शीला कुमारी, खान-भूतत्त्व-सह-कला-संस्कृतिमन्त्री डॉ. प्रमोदकुमारः तथा विधायकः श्यामरजकः अपि उपेन्द्रनाथवर्मणे श्रद्धाञ्जलिं समर्पितवन्तः।
तदतिरिक्तं उपेन्द्रनाथवर्मणः पुत्रवधू तथा विधानपार्षदा कुमुदवर्मा, विधानपार्षदः रवीन्द्रप्रसादसिंहः, विधानपार्षदः जीवनकुमारः इत्यादयः अन्ये जनप्रतिनिधयः सामाजिककार्यकर्तारश्च तस्य चित्रपटे पुष्पाणि समर्पितवन्तः। समारोहे स्वर्गीयवर्मणः परिवारस्य अन्ये सदस्याः अपि उपस्थिताः आसन्।
राजकीयसमारोहस्य समये सूचनाजनसम्पर्कविभागस्य कलाकारैः विविधाः सांस्कृतिकाः देशभक्तिपराश्च कार्यक्रमाः प्रस्तुताः। कार्यक्रमस्य शुभारम्भः आरतीपूजनेन अभवत्। ततः भजन-कीर्तनम्, राष्ट्रगीतं, राष्ट्रगानम्, बिहारगीतं तथा देशभक्तिगीतानि प्रस्तुतानि।
समारोहे उपस्थितैः जनैः उपेन्द्रनाथवर्मणः सार्वजनिकजीवनं तस्य योगदानं च स्मृत्वा तस्मै सम्मानः व्यक्तः। पुण्यतिथिसमारोहेण तस्य व्यक्तित्वं योगदानं च श्रद्धापूर्वकं स्मृतम्।------------
Hindusthan Samachar / Dheeraj Maithani