मुख्यमन्त्रिणा विष्णुदेवसायेन प्रदेशवासिभ्यः रक्षाबन्धनस्य शुभकामनाः प्रदत्ताः
रायपुरम्, २८ अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः रक्षाबन्धनस्य पावनपर्वणः अवसरे प्रदेशवासिभ्यः हार्दिक्य: शुभकामनाश्च अयच्छत्। मुख्यमन्त्री सायः शुक्रवासरे सामाजिक-सन्देशमाध्यमे ‘एक्स’-मध्ये प्रकाशिते स्वकीयसन्देशे अवदत् यत् रक्षाबन्धनं
मुख्यमंत्री विष्णुदेव साय फाइल फाेटाे


रायपुरम्, २८ अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः रक्षाबन्धनस्य पावनपर्वणः अवसरे प्रदेशवासिभ्यः हार्दिक्य: शुभकामनाश्च अयच्छत्।

मुख्यमन्त्री सायः शुक्रवासरे सामाजिक-सन्देशमाध्यमे ‘एक्स’-मध्ये प्रकाशिते स्वकीयसन्देशे अवदत् यत् रक्षाबन्धनं भ्रातृभगिन्योः अखण्डस्नेहस्य, विश्वासस्य, आत्मीयतायाश्च पर्व अस्ति। सः अवदत् यत् एतत् पर्व भगिनीनां मानसम्मानस्य सुरक्षायाश्च तथा भ्रातॄणां सुदीर्घस्य सुखमयजीवनस्य च मङ्गलकामनायाः प्रतीकम् अस्ति।

मुख्यमन्त्री कामनां कृतवान् यत् रक्षाबन्धनस्य एतत् पावनं पर्व परिवारेषु स्नेहं, समाजे विश्वासं, सर्वेषां जीवने सुखसमृद्धिं प्रसन्नतां च प्रवाहयतु।

Hindusthan Samachar / Divya Ranjan