दिव्यांगबालाः निर्मितवत्यः पर्यावरण अनुकूलानि रक्षासूत्राणि, दत्तः स्वावलंबनस्य संदेशः
मेदिनीपुरम्, 28 अगस्तमासः (हि.स.)। पश्चिममेदिनीपुरजनपदस्य दान्तन-स्थिते मानवकल्याणकेन्द्रे निवसन्त्यः आवासीयाः दिव्याङ्गाः कन्याः अस्मिन् वर्षे रक्षाबन्धनस्य कृते स्वहस्तैः पर्यावरणानुकूलानि रक्षासूत्राणि निर्मितवत्यः सन्ति। शारीरिक-मानसिकचुनौतीन
दांतन में दिव्यांग बेटियां पर्यावरण अनुकूल राखियां बनाती हुईं


दिव्यांग बेटियों द्वारा बनाई गई राखियां


मेदिनीपुरम्, 28 अगस्तमासः (हि.स.)।

पश्चिममेदिनीपुरजनपदस्य दान्तन-स्थिते मानवकल्याणकेन्द्रे निवसन्त्यः आवासीयाः दिव्याङ्गाः कन्याः अस्मिन् वर्षे रक्षाबन्धनस्य कृते स्वहस्तैः पर्यावरणानुकूलानि रक्षासूत्राणि निर्मितवत्यः सन्ति। शारीरिक-मानसिकचुनौतीनां समक्षेऽपि एतासां कन्यानां सृजनात्मकता परिश्रमश्च जनानां ध्यानम् आकर्षयतः।

मानवकल्याणकेन्द्रे निवसन्त्यः कन्याः प्रशिक्षकाणां साहाय्येन गतद्विमासेभ्यः रक्षासूत्रनिर्माणं कुर्वन्त्यः सन्ति। विपण्यां प्राप्यमाणानां प्लास्टिकनिर्मितानां कृत्रिमरक्षासूत्राणां स्थाने प्राकृतिकसामग्रीणाम् उपयोगेन आकर्षकाणि रक्षासूत्राणि निर्मीयन्ते।

एतेषां रक्षासूत्राणां निर्माणे धान्यम्, जूट्, वर्णितकागदः, मटर् तथा चणकः इत्यादीनां सामग्रीणां उपयोगः क्रियते। केषुचित् रक्षासूत्रेषु विभिन्नप्रकारकाणि बीजानि अपि स्थाप्यन्ते। केन्द्रस्य अनुसारम्, उपयोगानन्तरं यदि एतानि रक्षासूत्राणि मृत्तिकायां विलीयन्ते, तर्हि तेषु विद्यमानैः बीजैः पादपाः अपि उत्पद्येरन्। एवं रक्षासूत्राणां माध्यमेन पर्यावरणसंरक्षणस्य सन्देशः प्रदीयते।

केन्द्रसूत्रानुसारं रक्षाबन्धनपर्वणः कृते अधुना पर्यन्तं प्रायः सार्धैकसहस्रात् द्विसहस्रपर्यन्तं पर्यावरणानुकूलानि रक्षासूत्राणि निर्मितानि सन्ति। एतेषां रक्षासूत्राणां विक्रयेन विशेषावश्यकतायुक्तानां कन्यानां कृते आयस्य मार्गः अपि प्रशस्तो भविष्यति। तदनन्तरं रक्षाबन्धनस्य अवसरे स्थानीयानां शासकीय-निजीकार्यालयानां अधिकारिणां कलाइषु अपि ताभिः स्वहस्तैः निर्मितानि रक्षासूत्राणि बन्धिष्यन्ते।

संस्थायाः शिक्षिका काकलीदी अवदत्— “एतानि रक्षासूत्राणि जनपदस्य विभिन्नेषु स्थलेषु तथा शासकीयकार्यालयेषु अपि प्रेष्यन्ते। रक्षासूत्राणां मूल्यं दशरूप्यकात् षष्टिरूप्यकपर्यन्तं निर्धारितम् अस्ति। विक्रयेन प्राप्ता राशि बालिकानां खातेषु निक्षिप्यते। दिव्याङ्गबालकेष्वपि प्रतिभायाः सृजनात्मकतायाश्च किमपि न्यूनता नास्ति। यदि तेभ्यः उचितः अवसरः प्रशिक्षणं च प्राप्यते, तर्हि ते स्वकौशलेन आत्मनिर्भराः भवितुं शक्नुवन्ति तथा समाजस्य मुख्यधारायां सम्मानपूर्वकं अग्रे गन्तुं शक्नुवन्ति।”

अस्याः पहलस्य माध्यमेन कन्यासु आत्मविश्वासस्य स्वावलम्बनभावनायाश्च दृढता वर्धते। मानवकल्याणकेन्द्रस्य एषा पहल एतत् सन्देशं ददाति यत् शारीरिकाः मानसिकाश्च चुनौतयः कस्यापि व्यक्तेः प्रतिभायाः सृजनात्मकतायाश्च मार्गे बाधाः भवितुं न शक्नुवन्ति। स्वपरिश्रमेण कलया च एताः कन्याः समाजस्य मुख्यधारया सह सम्बद्धुं प्रयतन्ते।

---------------

Hindusthan Samachar / Dheeraj Maithani