योगीसर्वकारेण षष्टिवर्षाधिकवयस्कानां महिलानां निःशुल्कबसयात्रायै प्रदत्ता अपराऽपि महती सुविधा
लखनऊ, २८ अगस्तमासः (हि.स.)। योगीसर्वकारेण प्रदेशस्य षष्टिवर्षेभ्यः अधिकवयस्कानां महिलानां कृते महत् उपहारं प्रदाय उत्तरप्रदेशराज्य-सडकपरिवहननिगमस्य साधारण-बसयानेषु निःशुल्कयात्रायाः सुविधा प्रारब्धा अस्ति। सर्वकारेण एतासां महिलानां कृते अपराऽपि महत
सरकार लोगो


लखनऊ, २८ अगस्तमासः (हि.स.)। योगीसर्वकारेण प्रदेशस्य षष्टिवर्षेभ्यः अधिकवयस्कानां महिलानां कृते महत् उपहारं प्रदाय उत्तरप्रदेशराज्य-सडकपरिवहननिगमस्य साधारण-बसयानेषु निःशुल्कयात्रायाः सुविधा प्रारब्धा अस्ति। सर्वकारेण एतासां महिलानां कृते अपराऽपि महती सुविधा प्रदत्ता अस्ति यत् अस्याः सुविधायाः लाभं प्राप्तुं ताभिः कस्यचित् विशेषपत्रस्य प्रतीक्षा न करणीया भविष्यति। पात्राः महिलायात्रिण्यः स्ववयः प्रमाणितुं आधारपत्रं मतदातृपरिचयपत्रं वा प्रदर्श्य शनिवासरे (२९ अगस्तमासे) आरभ्य बसयाने निःशुल्कं यात्रां कर्तुं शक्नुवन्ति। एषा व्यवस्था ‘लोकमाता-अहिल्याबाई-मातृशक्तियात्रायोजनायाः’ अन्तर्गतं कार्यान्विता अस्ति।

परिवहननिगमस्य अनुसारं यात्राकाले पात्रया महिलया परिचालकाय स्वस्य आधारपत्रं मतदातृपरिचयपत्रं वा दर्शयितव्यम्। परिचालकः तथ्ये उल्लिखितायाः जन्मतिथेः आधारेण वयः परीक्ष्य ईटीआईएम-यन्त्रेण शून्यमूल्यस्य टिकटं निर्गमयिष्यति। अस्या: चिटिकाया: कृते महिलायात्रिण्याः किमपि शुल्कं न ग्रहीष्यते। चिटिकामध्ये बसयानस्य सङ्ख्या, यात्रायाः प्रारम्भस्थानं गन्तव्यस्थानं च इत्यादीनि आवश्यकविवरणानि उल्लिखितानि भविष्यन्ति।

साधारणश्रेण्याः बसयानेषु सुविधा

परिवहननिगमेन उक्तं यत् एषा निःशुल्कयात्रासुविधा निगमस्य तथा अनुबन्धितानां च उभयप्रकारकाणां बसयानानां साधारणश्रेण्यां मान्या भविष्यति। प्रत्येकस्याः निःशुल्कयात्रायाः कृते शून्यमूल्यस्य चिटिका निर्गन्तव्या अनिवार्या भविष्यति, येन यात्रायाः सम्पूर्णः अभिलेखः डिजिटलरूपेण एमआईएस/क्लाउड्-आधारिते दत्तांशसर्वरे उपलब्धः भवेत्। अनेन योजनायाः कार्यान्वयने पारदर्शिता स्थापयितुं यात्रासम्बद्धानां तथ्यानां निरीक्षणे च सहायता भविष्यति।

स्मार्टकार्ड इत्यस्य प्रक्रियाऽपि पृथगेव भविष्यति

परिवहननिगमः पात्रलाभार्थिनीनां कृते स्मार्टकार्डनिर्गमनस्य प्रक्रियामपि पृथगेव करिष्यति। तथापि निःशुल्कयात्रायै तत्कालं स्मार्टकार्डस्य अनिवार्यता न स्थापिता अस्ति। सम्प्रति आधारपत्रस्य अथवा मतदातृपरिचयपत्रस्य माध्यमेन पात्रतां प्रमाणीकृत्य महिलाः योजनायाः लाभं प्राप्तुं शक्नुवन्ति। निगमेन सर्वेभ्यः परिचालकेभ्यः योजनायाः पात्रतायाः दस्तावेजसम्बद्धायाः प्रक्रियायाश्च विषये जानकारीं प्रदातुं निर्देशाः दत्ताः सन्ति।

शुल्कं गृहीतं चेत् भविष्यति कार्यवाही

निगमस्य निर्देशानुसारं योजनायाः अन्तर्गतं पात्रमहिलायात्रिण्याः सकाशात् यात्राशुल्कस्य याचनं ग्रहणं वा न करणीयम्। कस्याश्चित् पात्रायाः महिलायाः सकाशात् अनुचितरूपेण यात्राशुल्कं गृहीतं चेत् सम्बन्धितेषु जनेषु कार्यवाही करिष्यते। क्षेत्रीयाधिकारिणः डिपो-प्रभारिणश्च योजनायाः पारदर्शितायै नियमितरूपेण निरीक्षणं करिष्यन्ति।

Hindusthan Samachar / Divya Ranjan