Enter your Email Address to subscribe to our newsletters

नव दिल्ली/मुंबई, 28 अगस्तमासः (हि.स.)।विदेशीमुद्राकोषे निरन्तरं नवमसप्ताहेऽपि वृद्धिः अभवत्। देशस्य विदेशीमुद्राकोषे एकसप्ताहस्य अवधौ १२.४२२ अरब-अमेरिकीडॉलर्-परिमितस्य वृद्धिः अभिलेखिता अस्ति। एषः कोषः २०२६ तमे वर्षे फरवरीमासे प्राप्तं ७२८.५ अरब-अमेरिकीडॉलर्-परिमितं पूर्वसर्वकालिकं उच्चतमस्तरमपि अतिक्रान्तवान्।
भारतीय-रिजर्व-बैङ्केन (आरबीआई) शुक्रवासरे प्रकाशितेषु दत्तांशेषु सूचितं यत् २१ अगस्त्-दिने समाप्ते सप्ताहे देशस्य विदेशीमुद्राकोषः १२.४२ अरब-अमेरिकीडॉलर्-वर्धितः सन् ७२९.३२८ अरब-अमेरिकीडॉलर्-परिमितं अभिलेखीयम् उच्चतमस्तरं प्राप्तवान्। अस्मात् पूर्वसप्ताहेऽपि विदेशीमुद्राकोषः ९.९०५ अरब-अमेरिकीडॉलर्-वर्धितः सन् ७१६.९०७ अरब-अमेरिकीडॉलर् अभवत्।
दत्तांशानुसारं विदेशीमुद्राकोषस्य सर्वाधिकः भागः विदेशीमुद्रासम्पत्तिषु (एफसीए) अस्ति। तासु ९.४८२ अरब-अमेरिकीडॉलर्-परिमितस्य वृद्धिः अभवत् तथा ताः ५९१.३३३ अरब-अमेरिकीडॉलर्-परिमितं प्राप्तवत्यः।
अस्मिन् अवधौ स्वर्णसञ्चितस्य मूल्ये २.८०१ अरब-अमेरिकीडॉलर्-परिमितस्य वृद्धिः अभवत् तथा तत् ११४.२१८ अरब-अमेरिकीडॉलर्-परिमितं प्राप्तम्। तदतिरिक्तं विशेष-आहरण-अधिकारस्य (एसडीआर) राशौ ११२ मिलियन-अमेरिकीडॉलर्-परिमितस्य वृद्धिः अभिलेखिता अस्ति, येन सा अधुना १८.८५२ अरब-अमेरिकीडॉलर्-परिमितं प्राप्तवती।
तथैव अन्ताराष्ट्रियमुद्राकोषे (आईएमएफ) भारतस्य आरक्षितस्थानस्य राशौ २६ मिलियन-अमेरिकीडॉलर्-परिमितस्य वृद्धिः अभवत् तथा सा ४.९२५ अरब-अमेरिकीडॉलर्-परिमितं प्राप्तवती।
---------------
Hindusthan Samachar / Dheeraj Maithani