Enter your Email Address to subscribe to our newsletters

रायपुरम्, 28 अगस्तमासः (हि.स.)।
रक्षाबन्धनस्य पावनावसरे राज्यपालः रमेन डेका तथा प्रथममहिला रानी डेका काकोटी च अद्य रायपुरनगरस्य गायत्रीनगरे स्थितं श्रीजगन्नाथमन्दिरं गत्वा भगवान् जगन्नाथस्य दर्शनं कृत्वा विधिवत् पूजन-अर्चनं सम्पाद्य रक्षासूत्रं बबन्धतुः।
राज्यपालः डेका अस्मिन् अवसरे देशस्य प्रदेशस्य च जनानां सुख-समृद्धेः, खुशहालेः शान्तेः च कामनां कृतवान्। सः अवदत् यत् रक्षाबन्धनं भ्रातृ-भगिन्योः स्नेहस्य, विश्वासस्य परस्परसौहार्दस्य च पावनं पर्व अस्ति, यत् समाजे प्रेम्णः भ्रातृत्वभावनायाः च सुदृढीकरणं करोति।
अस्मिन् अवसरे विधायकः पुरन्दरमिश्रः तथा गणमान्याः श्रद्धालवः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani