‘गौहाटी-यूनिवर्सिटी-कॉन्क्लेव’ इति कार्यक्रमः सम्पन्नः
गुवाहाटी, २८ अगस्तमासः (हि.स.)। युवासमाजम्, उद्यमिताम्, शिक्षां नेतृत्वस्य च नवीनाः सम्भावनाः एकस्मिन् मञ्चे आनेतुं गौहाटीविश्वविद्यालयस्य स्नात-कोत्तरछात्रसङ्घस्य प्रयासेन शुक्रवासरे बिरिञ्चिकुमारबरुवासभागृहे प्रथमवारं विशेषः साङ्गीतिकः कार्यक्रमः
गुवाहाटी विश्वविद्यालय में संपन्न हुआ 'गौहाटी यूनिवर्सिटी कॉन्क्लेव'


गुवाहाटी, २८ अगस्तमासः (हि.स.)। युवासमाजम्, उद्यमिताम्, शिक्षां नेतृत्वस्य च नवीनाः सम्भावनाः एकस्मिन् मञ्चे आनेतुं गौहाटीविश्वविद्यालयस्य स्नात-कोत्तरछात्रसङ्घस्य प्रयासेन शुक्रवासरे बिरिञ्चिकुमारबरुवासभागृहे प्रथमवारं विशेषः साङ्गीतिकः कार्यक्रमः ‘गौहाटी-यूनिवर्सिटी-कॉन्क्लेव' इत्याख्यः आयोजितः। विद्यार्थिषु आत्मविकासस्य, नेतृत्वकौशलस्य, उद्यमिशीलचिन्तनस्य समकालीन-प्रौद्योगिकीज्ञानस्य च विकासाय नूतनमञ्चरूपेण अयं कॉन्क्लेव आयोजितः।

स्नातकोत्तरछात्रसङ्घस्य अध्यक्षस्य गुञ्जनडेकस्य स्वागतभाषणेन प्रारब्धे अस्मिन् कार्यक्रमे असमस्य शिक्षामन्त्री डॉ. रानोजपेगुः मुख्यातिथिरूपेण उपस्थितः आसीत्। सः शिक्षा-युवासमाजयोः समाजस्य विभिन्नक्षेत्रेषु च परिवर्तनस्य आवश्यकतां सम्भावनां च अधिकृत्य महत्त्वपूर्णं भाषणं दत्तवान्।

सम्माननीयातिथिरूपेण उपस्थितः दिसपुरस्य विधायकः प्रद्युतबोरदोलोई देशस्य युवाशक्तिं कृत्रिमबुद्धिमत्तायाः अस्मिन् युगे स्वदक्षताभिः सह अग्रे गन्तुम् आहूतवान्। कॉन्क्लेव इत्यस्य उद्घाटनं कुर्वन् कुलपतिः आत्मविकासं वर्तमानस्य युवाशक्तेः प्रमुखतमासु शक्तिषु अन्यतमम् इति वर्णयन् ज्ञान-कौशल-आत्मविश्वासैः सह स्वस्य विकासं कर्तुं बलं दत्तवान्।

अस्मिन् कॉन्क्लेव-कार्यक्रमे “असमस्य यूनां सशक्तीकरणं विकसित-असमस्य निर्माणाय, विकसित-भारतस्य दिशि” इत्यादिषु विषयेषु विशिष्टवक्तृभिः अत्यन्तम् आकर्षकाणि उपयोगिनश्च व्याख्यानानि प्रस्तुतानि।

सहायकपञ्जीयकेन डॉ. हिरकज्योति-शर्मणा सञ्चालिते अस्मिन् उद्घाटन-समारोहे पञ्जीयकः प्रोफेसर उत्पलशर्मा, कक्षासचिवः डॉ. रञ्जनकुमारकाकतिः इत्यादयः अनेकाः प्राध्यापकाः तथा च बहुसङ्ख्याकाः छात्राः छात्राश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan