बलराम पूर्णिमया सह गुप्त वृंदावन धाम्नि जातो जन्माष्टमीमहोत्सवस्य आरंभः
जयपुरम्, 28 अगस्तमासः (हि.स.)। जयपुरस्य जगत्पुरास्थिते गुप्तवृन्दावनधाम्नि शुक्रवासरे श्रीबलरामपूर्णिमामहोत्सवः श्रद्धया उल्लासेन च आचरितः। तेन सह धाम्नि श्रीकृष्णजन्माष्टमी-महोत्सवानाम् अपि शुभारम्भः अभवत्। बलरामपूर्णिमायाः पावनावसरे भगवते छप्प
बलराम पूर्णिमा के साथ गुप्त वृंदावन धाम में हुआ जन्माष्टमी महोत्सवों का आगाज


बलराम पूर्णिमा के साथ गुप्त वृंदावन धाम में हुआ जन्माष्टमी महोत्सवों का आगाज


जयपुरम्, 28 अगस्तमासः (हि.स.)।

जयपुरस्य जगत्पुरास्थिते गुप्तवृन्दावनधाम्नि शुक्रवासरे श्रीबलरामपूर्णिमामहोत्सवः श्रद्धया उल्लासेन च आचरितः। तेन सह धाम्नि श्रीकृष्णजन्माष्टमी-महोत्सवानाम् अपि शुभारम्भः अभवत्।

बलरामपूर्णिमायाः पावनावसरे भगवते छप्पन्नभोगस्य विशेषा झाँकी सज्जिता। संकीर्तनम्, पालकी-महोत्सवः, महाभिषेकः, महाआरती च आयोजिताः। ततः श्रद्धालुभ्यः महाप्रसादस्य वितरणमपि कृतम्। अस्य पूर्वं प्रवर्तमानायाः कृष्णकथायाः अपि समापनम् अभवत्।

महोत्सवस्य समये धामपरिसरः भक्तिसंगीतस्य संकीर्तनस्य च मधुरध्वनिभिः गुंजितः अभवत्। बहुसंख्याकाः श्रद्धालवः भगवान् बलरामस्य दर्शनं कृत्वा विशेषपूजाऽर्चनासु भागं गृहीतवन्तः।

धामे शनिवासरात् त्रिदिवसीयः श्रीकृष्णजन्माष्टमी-कार्निवलः प्रारप्स्यते। सः अगस्तमासस्य २९ दिनाङ्कात् ३१ दिनाङ्कपर्यन्तं प्रचलिष्यति। अस्य आयोजनस्य उद्देश्यं बालकान् युवजनांश्च भारतीयसंस्कृत्या सनातनमूल्यैश्च सह संयोजयितुम् अस्ति।

कार्निवले बालकाः राधाकृष्णयोः, अभिभावकाः नन्दयशोदयः, अन्ये च पौराणिकपात्राणां वेशभूषां धृत्वा भागं ग्रहीष्यन्ति। भक्तिसंगीतम्, कीर्तनम्, शास्त्रीयनृत्यम्, आमन्त्रितकलाकाराणां विशेषप्रस्तुतयश्च अस्य प्रमुखाकर्षणानि भविष्यन्ति।

गुप्तवृन्दावनधामस्य माध्यमप्रवक्ता सिद्धस्वरूपदासः अवदत् यत् गुप्तवृन्दावनधामे सितम्बरमासस्य ४ दिनाङ्के श्रीकृष्णजन्माष्टमीस्य मुख्य-महोत्सवः आयोजितः भविष्यति। तदर्थं सज्जताः तीव्रगत्या प्रचलन्ति। श्रद्धालूनां सुगमदर्शनार्थं चतुर्षु पृथक्पङ्क्तिषु व्यवस्था क्रियमाणा अस्ति।

धामप्रबन्धनस्य अनुसारं जन्माष्टमीपर्वणि लक्षाधिकाः श्रद्धालवः आगमिष्यन्तीति सम्भावना अस्ति। दिवसभरं विशेषाभिषेकः, अष्टोत्तरशतभोगः संकीर्तनं च भविष्यति। मध्यरात्रौ भगवान् श्रीकृष्णस्य विशेषमहाभिषेकः सम्पादयिष्यते।

जन्माष्टम्याः परदिने, सितम्बरमासस्य ५ दिनाङ्के, नन्दोत्सवः तथा श्रीलप्रभुपादव्यासपूजामहोत्सवश्च आचरिष्यते। अस्मिन् अवसरे विशेषाभिषेकेन सह भगवते १००८ भोगाः समर्पयिष्यन्ते।

ततः सितम्बरमासस्य ६ दिनाङ्के भगवद्गीतायाः शिक्षासु आधारितः विशेषः निःशुल्कः संगोष्ठी आयोजितः भविष्यति।

गुप्तवृन्दावनधामस्य माध्यमप्रवक्ता सिद्धस्वरूपदासः अवदत् यत् जन्माष्टमीमहोत्सवस्य सन्दर्भे श्रद्धालूनां सुविधायै व्यवस्थासु च विशेषं ध्यानं दीयते।

---------------

Hindusthan Samachar / Dheeraj Maithani