Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २८ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे गतद्वादशवर्षेषु प्रधानमन्त्री-जनधन-योजनायाः अभूतपूर्वविस्तारस्य परिवर्तन-कारीपरिणामानां च विषये प्रकाशं प्रदत्तवान्।
प्रधानमन्त्रिणा मोदिना ‘एक्स’-इत्यत्र लिखितम्, “अभूतपूर्वं व्यापकतया परिवर्तनकारिणः परिणामाः! जनधन-योजनायाः अभूतपूर्वः प्रभावः अभवत्। एषा योजना वित्तीयसमावेशनस्य प्रोत्साहने देशस्य सर्वत्र जनानां सशक्तीकरणे च महत्त्वपूर्णां भूमिकां निर्वहति।”
उल्लेखनीयं यत् प्रधानमन्त्री-जनधन-योजना केन्द्रीयसर्वकारस्य राष्ट्रिय-वित्तीयसमावेशन-अभियानम् अस्ति, या २८ अगस्त २०१४ तमे वर्षे प्रारब्धा। अस्याः योजनायाः अन्तर्गतं अद्यावधि ५९ कोट्यधिकानि उद्घाटितानि सन्ति। एतासु धनागारपंजिकासु ३ लक्षं १७ सहस्रकोटि-रूप्यकाणां धनराशिः निक्षिप्ता अस्ति।
अस्याः योजनायाः उद्देश्यम् अस्ति यत् देशस्य सर्वेषां परिवाराणां कृते धनागारसेवाः उपलब्धाः भवेयुः तथा च प्रत्येकं परिवारस्य धनागारपंजिका उद्घाट्येत।
Hindusthan Samachar / Divya Ranjan