नेपालाय सर्वसम्भवसहायतां प्रदातुं भारतस्य प्रयासः, ३२० भारतीयाः अद्यापि विलुप्ता:, तमिलनाडुराज्यस्य २१ पर्यटकाः स्वदेशं प्रत्यागताः
नवदिल्ली, २८ अगस्तमासः (हि.स.)। भारतं कथितवान् यत् विनाशकारिण्या जलाप्लावनविपदया प्रभाविताय नेपाल-देशाय आवश्यकतानुसारं सर्वविधां मानवीयां, प्राविधिकीं, चिकित्सकीयां तथा उद्धारसहायतां प्रदातुं सः प्रयत्नशीलः अस्ति। भारतस्य उद्देशः केवलं राहत्सामग्री
तमिलनाडु के नेपाल से लौटे पर्यटकों से मुलाकात करते विदेश मंत्री जयशंकर


नवदिल्ली, २८ अगस्तमासः (हि.स.)। भारतं कथितवान् यत् विनाशकारिण्या जलाप्लावनविपदया प्रभाविताय नेपाल-देशाय आवश्यकतानुसारं सर्वविधां मानवीयां, प्राविधिकीं, चिकित्सकीयां तथा उद्धारसहायतां प्रदातुं सः प्रयत्नशीलः अस्ति। भारतस्य उद्देशः केवलं राहत्सामग्रीणां प्रेषणमेव न, अपि तु अन्वेषणोद्धाराभियाने, चिकित्सा-सहायतायां तथा प्रभावितक्षेत्रेषु सम्पर्क-व्यवस्थायाः पुनर्स्थापने नेपालस्य साहाय्यं करणमपि अस्ति। विदेश-मन्त्रालयस्य अनुसारम् अद्यावधि ३२० भारतीयैः सह सम्पर्कः स्थापितः नास्ति। तमिल-नाडुराज्यस्य २१ पर्यटकाः स्वदेशं प्रत्यागताः तथा त्रिशूली-१ जल-विद्युत्परियोजनायां कार्यरताः ६३ भारतीयाः अपि सुरक्षितरूपेण उद्धारिताः।

विदेशमन्त्रालयस्य प्रवक्ता रणधीर-जयसवालः शुक्रवासरे साप्ताहिकपत्रकार-वार्तायां कथितवान् यत् जलाप्लावन-प्रभावितक्षेत्रात् काठमाण्डूनगरं प्राप्ताः २१ भारतीयनागरिकाः अद्य दिल्लीम् आगतवन्तः। एते सर्वे तमिलनाडुराज्यस्य निवासीः सन्ति। काठमाण्डूनगरे भारतस्य राजदूतेन तैः सह मिलित्वा तेषां स्वास्थ्यस्य स्थितेश्च विषये जानकारी प्राप्ता आसीत्। अपरतः त्रिशूली-१ जलविद्युत्परियोजनायां कार्यरताः ६३ भारतीयाः अपि सुरक्षितरूपेण उद्धारिताः सन्ति। सर्वकारः तेषां सुरक्षितस्वदेशप्रत्यागमनस्य व्यवस्थां करोति। तदतिरिक्तं चीनदेशस्य दिशि अवरुद्धा: ९६ भारतीयनागरिकाः भूमिमार्गेण सुरक्षितरूपेण नेपालदेशं प्राप्तवन्तः। अधुना तेभ्यः सुरक्षितरूपेण तान् बहिः निष्कास्य भारतम् आनेतुं प्रयासाः क्रियन्ते।

विदेशमन्त्री एस. जयशङ्करः अद्य नेपालदेशे जलाप्लवनेन उद्धारितानां तमिलनाडुराज्यस्य २१ तीर्थयात्रिणां समूहस्य विमानस्थानके मिलितवान्। तेषां आपबीतीं श्रुत्वा सः भावुकः अभवत्। अस्य उद्धारकार्यस्य कृते तेन नेपालीसेनायाः मुख्यालयस्य सर्वकारस्य च धन्यवादः ज्ञापितः।

प्रवक्तुः अनुसारम् अस्मिन् समये प्रायः ३२० भारतीयनागरिकैः सह सम्पर्कः स्थापितुं न शक्यते अथवा ते विलुप्ता: मन्यन्ते। तथापि मन्त्रालयेन स्पष्टं कृतं यत् स्थितिः निरन्तरं परिवर्तते तथा विभिन्नानां सूचीनां समायोजनं क्रियमाणत्वात् एषा संख्या वर्धितुं वा न्यूनीभवितुं वा शक्नोति। तदतिरिक्तं प्रायः १०० भारतीयमूलस्य जनाः अपि सम्पर्कात् बहिः सन्ति। एतेषु ते जनाः सम्मिलिताः भवितुमर्हन्ति ये कैलास-मानसरोवरयात्रायै गतवन्तः, किन्तु तेषां समीपे भारतीयनागरिकतायाः स्थाने अन्यदेशस्य नागरिकता अस्ति।

चीनदेशस्य दिशि प्रायः ४०० भारतीयनागरिकाः उपस्थिताः सन्ति तथा सर्वे सुरक्षिताः इति कथ्यते। ते स्वपरिवारैः सह सम्पर्के सन्ति। बीजिङ्गनगरे स्थितम् भारतीयदूतावासः तैः सह स्थानीया-धिकारिभिः सह च सम्पर्कं स्थापयित्वा तेषां सुरक्षितनिष्कासनस्य व्यवस्थायै कार्यं करोति।

विदेशमन्त्रालयस्य प्रवक्ता जयसवालस्य अनुसारं नेपालदेशे साम्प्रतिकायाः जलाप्लावनविपदायाः अनन्तरं भारतं राहत्-उद्धाराभियानं तीव्रतरं कृतवान् अस्ति। अद्यावधि द्वाभ्यां विमानाभ्यां राहत्सामग्री प्रेषिता अस्ति। तृतीयमपि विमानं २८ अगस्तमासस्य सायंकाले प्रेषयितुं सज्जता क्रियते। तदनन्तरं भारतस्य पक्षतः नेपालाय प्रायः ६० टनमितं सहायकसामग्री प्रदत्ता भविष्यति।

तेन कथितं यत् २६ अगस्तमासस्य सायंकाले प्रस्थितेन प्रथमेन विमानेन प्रायः १० टनमिता राहत्सामग्री प्रेषिता। तस्यां अस्थायी-आश्रयाः, कम्बलानि, स्वच्छताकिटानि, सौरदीपाः औषधानि च सम्मिलितानि आसन्। २७ अगस्तमासे प्रातः प्रायः १०:३० वादने प्रस्थितेन द्वितीयेन विमानेन ३७.५ टनमिता राहत्सामग्री प्रेषिता। तस्यां कम्बलानि, स्वच्छताकिटानि, सौरदीपाः, जलनिष्का-सनपम्पाः, पाकशालाकिटानि, विद्युत्जनि-त्राणि, औषधानि खाद्यसामग्री च सम्मिलितानि सन्ति। विमानेन प्रेष्यमाणायां आगामीसामग्रीखेपे प्रायः १२ तः १३ टनमिता राहत्सामग्री प्रेषयितुं योजना अस्ति। तस्यां चलनीयविद्युत्ज-नित्राणि, गरिमाकिटानि, खाद्यसामग्री, जलशोधनगोलिकाः औषधानि च भविष्यन्ति। तत्र नेपालपक्षतः याचितानाम् आवश्यकवस्तूनां प्राथमिकता दत्ता अस्ति।

तदतिरिक्तं भारतं नेपालस्य अनुरोधानुसारं सुरङ्गोद्धारदलस्य प्रेषणस्य सज्जतां करोति। तद् पूर्वम् एकं निरीक्षणदलम् नेपालदेशं प्रेष्यते, यत् प्रभावितक्षेत्रेषु स्थितिम् आकलयिष्यति तथा उद्धारा-भियानाय कीदृशानाम् उपकरणानाम् आवश्यकता भविष्यतीति ज्ञास्यति। तदाधारेण मुख्योद्धारदलम् उपकरणानि च प्रेषयिष्यन्ते।

भारतं नेपालसर्वकाराय राष्ट्रियविपदा-प्रतिक्रियाबलस्य दलं आवश्यकानि उपकरणानि च प्रेषयितुं प्रस्तावमपि दत्तवान् अस्ति। एतानि दलानि अन्वेषणोद्धाराभियाने साहाय्यं कर्तुं शक्नुवन्ति तथा प्रभावितजनानां समीपं सहायकसामग्रीं प्रापयितुं च सहाय्यं करिष्यन्ति। भारतं नेपालसर्वकारस्य प्रतिक्रियायाः प्रतीक्षां करोति।

अपरतः भारतं नेपालदेशं चिकित्सादलं प्रेषयितुं प्रस्तावं दत्तवान् अस्ति। एतत् दलं विपदया प्रभावितेभ्यः जनेभ्यः आवश्यकां चिकित्सासहायतां प्रदातुं साहाय्यं करिष्यति। भारतं नेपालाय बैलीसेतून् उपलब्धुं प्रस्तावमपि दत्तवान् अस्ति। तैः सह प्राविधिकदलानि अपि प्रेषयिष्यन्ते, येन जलाप्लवनेन प्रभावितक्षेत्रेषु क्षतिग्रस्ताः सम्पर्कमार्गाः शीघ्रं पुनर्स्थापयितुं शक्यन्ते। भारतस्य एकः बैलीसेतुः पूर्वमेव नेपालदेशे विद्यमानः अस्ति तथा तस्य उपयोगः उद्धारकार्ये कर्तुं शक्यते।

विदेशमन्त्रालयस्य नियन्त्रणकक्षः भारते चतुर्विंशतिः होराः कार्यं करोति। काठमाण्डूनगरे बीजिङ्गनगरे च स्थितौ भारतीयदूतावासयोः नियन्त्रणकक्षौ अपि निरन्तरं स्थितेः निरीक्षणं कुरुतः। भारतीयनागरिकानां तेषां परिजनानां च साहाय्यार्थं दूरभाषसहायतामाध्यमेन अपि सूचनाः सङ्गृह्यन्ते।

Hindusthan Samachar / Divya Ranjan