Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २८ अगस्तमासः (हि.स.)। राष्ट्रियमानवाधिकारायोगेन उत्तरप्रदेशस्य बलियामण्डले स्थिते एकस्मिन् सर्वकारीयविद्यालये षष्ठीतः अष्टमी-कक्षापर्यन्तं पठतां विद्यार्थिनां कृते विगतद्वाभ्यां वर्षाभ्यां मध्याह्नभोजनं न प्रदत्तमित्यस्य प्रकरणस्य स्वयंसंज्ञानं गृहीतम्। आयोगेन मुख्यसचिवाय सूचनापत्रं प्रेष्य द्विसप्ताहाभ्यन्तरे विस्तृतप्रतिवेदनं प्रदातुं निर्देशः दत्तः।
अस्मिन् सन्दर्भे प्रकाशितवार्तानुसारं विद्यालये मध्याह्नभोजनस्य अनुप-लब्धतायाः विषये विद्यार्थिभिः जनपदा-धिकारिणे पत्रं लिखित्वा स्वसूचना कृता। ततः कृते अन्वेषणे ज्ञातं यत् द्विशतं विद्यार्थिभ्यः नियमितरूपेण भोजनं प्रदत्तमिति मिथ्या-अभिलेखः संरक्षितः आसीत्। अन्वेषणे अनियमितताः तथा च प्रायः चतुर्दशलक्षरूप्यकाणां कथित-दुर्विनियोगः प्रकाशे आगतः। अस्मिन् पाककारेभ्यः न्यूनं वेतनं प्रदातुं तथा प्रधानमन्त्रीपोषणाभियानस्य निधेः प्रधानाचार्येण अन्यैश्च अधिकारिभिः दुरुपयोगः करणम् अपि सम्मिलितम् अस्ति।
Hindusthan Samachar / Divya Ranjan