प्रधानमन्त्रिणा मोदिना रक्षाबन्धनस्य विश्वसंस्कृतदिवसस्य च शुभकामनाः प्रदत्ताः
नवदिल्ली, २८ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य देशवासिभ्यः रक्षाबन्धनस्य विश्वसंस्कृतदिवसस्य च शुभकामनाः अयच्छत्। तेन स्वस्य ‘एक्स्’-सन्देशमाध्यमे एतत्सम्बन्धिते द्वे सन्देशे प्रकाशिते। एकं रक्षाबन्धनसम्बद्धं सुभाषितम् अस्ति, अपरश्
ff0736e68701cd5bb28e19f4b8c84882_1641598331.jpg


नवदिल्ली, २८ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य देशवासिभ्यः रक्षाबन्धनस्य विश्वसंस्कृतदिवसस्य च शुभकामनाः अयच्छत्। तेन स्वस्य ‘एक्स्’-सन्देशमाध्यमे एतत्सम्बन्धिते द्वे सन्देशे प्रकाशिते। एकं रक्षाबन्धनसम्बद्धं सुभाषितम् अस्ति, अपरश्च विश्वसंस्कृत-दिवससम्बद्ध: सन्देशः अस्ति।

तेन लिखितम्— “रक्षाबन्धनस्य एतत् पावनं पर्व भवतां सर्वेषां जीवने सुखसमृद्धिं सफलतां च आनयतु। स्नेहस्य, आत्मीयतायाः परस्परविश्वासस्य च सूत्रं सर्वदा अखण्डं भवतु, इत्येव मम कामना।”

रक्षाबन्धनसम्बन्धी सुभाषितम् अस्ति—

“एष प्रभावो रक्षायाः कथितस्ते युधिष्ठिर।जयदः सुखदश्चैव पुत्रारोग्यधनप्रदः॥”

इदं सुभाषितं भविष्यपुराणस्य उत्तरपर्वणः (१३७ अध्यायस्य ७ श्लोकात्) उद्धृतम् अस्ति। अस्मिन् श्रीकृष्णः युधिष्ठिरं रक्षासूत्रस्य (रक्षाबन्धनस्य) महत्त्वं प्रभावं च कथयति। सः कथयति— “हे युधिष्ठिर! मया तुभ्यं रक्षायाः (रक्षासूत्रस्य) प्रभावः कथितः। एतत् रक्षासूत्रं विजयप्रदं, सुखप्रदं, पुत्रप्रदं, आरोग्यप्रदं धनप्रदं च भवति।”

प्रधानमन्त्री नरेन्द्रमोदी विश्वसंस्कृत-दिवसस्य अवसरे लिखितवान्— “विश्वसंस्कृतदिवसस्य शुभाशयाः। अद्य, श्रावणपूर्णिमादिने, वयं संस्कृतस्य चिरन्तनसमृद्धेः उत्सवम् आचरामः। एषा भाषा भारतस्य ज्ञानस्य, चिन्तनस्य, सर्जनशीलतायाः च निरन्तरसङ्वाहिका आसीत्। तस्याः सकारात्मकः प्रभावः बहुषु क्षेत्रेषु अद्यापि द्रष्टुं शक्यते। एतस्मिन् विशिष्टे दिने, भारते विश्वे च ये संस्कृतं पठन्ति, पाठयन्ति तथा च एतस्यां निहितं कालातीतं निधिं अग्रिमसन्तत्यै प्रापयितुं प्रयत्नशीलाः सन्ति, तान् सर्वान् वयं प्रशंसामः।”

अस्य सन्देशस्य भावार्थः अस्ति— “विश्वसंस्कृतदिवसस्य शुभकामनाः। अद्य श्रावणपूर्णिमायाः अवसरे वयं संस्कृतस्य शाश्वतसमृद्धेः उत्सवं कुर्मः। एषा भाषा भारतस्य ज्ञानस्य, चिन्तनस्य सर्जनशीलतायाश्च निरन्तरं वाहिका अभवत्। तस्याः सकारात्मकः प्रभावः अद्यापि बहुषु क्षेत्रेषु दृश्यते। अस्मिन् विशिष्टे दिने भारते विश्वे च ये जनाः संस्कृतं पठन्ति, पाठयन्ति, तथा च तस्यां निहितं कालातीतं ज्ञाननिधिं अग्रिमसन्ततिं प्रति प्रापयितुं प्रयत्नशीलाः सन्ति, तान् सर्वान् वयं प्रशंसामः।”

Hindusthan Samachar / Divya Ranjan