Enter your Email Address to subscribe to our newsletters

– भ्रातृभगिन्योर्मध्ये विश्वासस्य, स्नेहस्य दायित्वस्य च प्रतीकम् अस्ति अयं पर्वः : सी.आर.पाटीलः
सूरतम्, २८ अगस्तमासः (हि.स.)। केन्द्रीयजलशक्तिमन्त्री सी.आर.पाटीलः रक्षाबन्धनस्य पावनावसरे देशवासिभ्यः हार्दिक्य: शुभकामनाश्च प्रदत्तवान्। अस्मिन् अवसरे अनेकाभिः भगिनीभिः तस्य हस्ते रक्षासूत्रं बद्ध्वा तस्य दीर्घायुषः, सुखसमृद्धेः उत्तमस्वास्थ्यस्य च कामना कृता। सी.आर.पाटीलेन अपि सर्वाभ्यः भगिनीभ्यः देशवासिभ्यश्च प्रेम्णः विश्वासस्य स्नेहस्य च अस्य पवित्रपर्वणः शुभकामनाः प्रदत्ताः।
सी.आर.पाटीलः अवदत् यत् रक्षाबन्धनं केवलं परम्परा नास्ति, अपितु भ्रातृभगिन्योर्मध्ये विश्वासस्य, स्नेहस्य दायित्वस्य च प्रतीकम् अस्ति। यदा भगिनी भ्रातुः हस्तमणिबन्धे रक्षासूत्रं बध्नाति, तदा भ्राता तस्याः सुरक्षां सम्मानं च संरक्षितुं संकल्पं करोति। सः अवदत् यत् एष एव अस्य पर्वणः सर्वाधिकमहत्त्वपूर्णः सन्देशः अस्ति।
सः अवदत् यत् देशस्य सर्वेषु भागेषु जनाः किमपि भेदभावं विना रक्षाबन्धनस्य पर्व आचरन्ति। अयं पर्वः भारतीयसंस्कृतेः विविधतायाम् एकतां, पारिवारिकमूल्यानि परस्परप्रेमभावनां च अधिकं सुदृढं करोति।
केन्द्रीयमन्त्री अवदत् यत् रक्षाबन्धनस्य माध्यमेन भ्रातृभगिन्योः सम्बन्धे विद्यमानः आत्मीयभावः परस्परविश्वासस्य भावना च अधिकं प्रगाढा भवति। अयं पर्वः परिवारे समाजे च प्रेम्णः सम्मानस्य दायित्व-भावनायाश्च सुदृढीकरणस्य सन्देशं ददाति।
अन्ते सी.आर.पाटीलेन देशवासिभ्यः, विशेषतः सर्वाभ्यः भगिनीभ्यः, रक्षा-बन्धनस्य हार्दिक्य: शुभकामनाश्च प्रदत्ताः।
Hindusthan Samachar / Divya Ranjan