भागलपुरे हर्षोल्लासेन सह समाचरत् रक्षाबंधनं, बहूनां भ्रातॄणां मणिबंधे बद्धं 'स्नेहसूत्रम्'
भागलपुरम्, 28 अगस्तमासः (हि.स.)। भागलपुरस्य नगरीयक्षेत्रसहिते सम्पूर्णे जनपदे भ्रातृभगिन्योः अटूटप्रेमस्य प्रतीकरूपं रक्षाबन्धनपर्व अत्यन्तहर्षोल्लासेन, पारम्परिकश्रद्धया उत्साहेन च आचरितम्। प्रातःकालादेव गृहेषु उत्सवस्य वातावरणं दृश्यते स्म। भग
भाई को राखी बांधती बहन


भागलपुरम्, 28 अगस्तमासः (हि.स.)।

भागलपुरस्य नगरीयक्षेत्रसहिते सम्पूर्णे जनपदे भ्रातृभगिन्योः अटूटप्रेमस्य प्रतीकरूपं रक्षाबन्धनपर्व अत्यन्तहर्षोल्लासेन, पारम्परिकश्रद्धया उत्साहेन च आचरितम्।

प्रातःकालादेव गृहेषु उत्सवस्य वातावरणं दृश्यते स्म। भगिन्यः भ्रातॄणां ललाटेषु तिलकं कृत्वा, आरतीम् उत्थाप्य, तेषां करेषु रक्षासूत्रं बध्नन्त्यः तेषां दीर्घायुष्यस्य सुखसमृद्धेश्च कामनां कृतवत्यः। अपरतः भ्रातरः अपि भगिनीभ्यः रक्षणस्य वचनं दत्त्वा सुन्दराणि उपहाराणि प्रदत्तवन्तः।

उत्सवस्य कारणेन प्रातःकालादेव विपणिषु मिष्टान्नानां रक्षासूत्राणां च आपणेषु महती जनसमूहेषु भीडः दृष्टा। अस्मिन् वर्षे रक्षाबन्धनपर्वणि भद्रायाः प्रभावः आसीत्, अतः प्रातःकाले रक्षासूत्रबन्धनस्य शुभमुहूर्तः नासीत्। अस्य विषये नगरे प्रसिद्धः ज्योतिषाचार्यः पण्डितः आनन्दझा उक्तवान्— “शास्त्रानुसारं भद्राकाले रक्षासूत्रबन्धनं वर्जितं मन्यते। अस्मिन् वर्षे भद्रायाः उपस्थितेः कारणात् मध्याह्नपर्यन्तं शुभकार्याणि स्थगितानि आसन्। मध्याह्ने १:३० वादने भद्रायाः समाप्तेः अनन्तरमेव रक्षासूत्रबन्धनस्य शुद्धः सर्वोत्तमश्च मुहूर्तः प्रारब्धः।”

सः अग्रे उक्तवान्— “मध्याह्नानन्तरं प्रारब्धः अयं शुभकालः सम्पूर्णरात्रिपर्यन्तं स्थितवान्, येन भगिनीभ्यः रक्षासूत्रबन्धनाय पर्याप्तः समयः प्राप्तः। सम्यक् मुहूर्ते कृता आशीर्वादरूपा प्रार्थना बद्धं च रक्षासूत्रं भ्रातुः जीवने आगच्छन्तः सर्वान् संकटान् दूरीकरोति तथा च समृद्धिं प्रददाति।”

उत्सवस्य कारणेन वीथिषु सार्वजनिकवाहनेषु च पर्याप्ता जनसमूहेषु भीडः दृष्टा। बसस्थानकेषु रेलस्थानकेषु च स्वभगिनीगृहं गच्छतां भ्रातॄणां भ्रातृगृहं गच्छतीनां भगिनीनां च महती आवागमनं दृष्टम्।

जनपदप्रशासनेन सुरक्षायाः सुदृढाः व्यवस्थाः कृताः आसन्, येन सम्पूर्णं रक्षाबन्धनपर्व शान्तिपूर्णे सौहार्दपूर्णे च वातावरणे सम्पन्नम् अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani