राष्ट्रपतिप्रमुखैः देशवासिभ्यः रक्षाबन्धनपर्वणः शुभकामनाः प्रदत्ताः
नवदिल्ली, २८ अगस्तमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मू, उपराष्ट्रपतिः सी.पी. राधाकृष्णन्, लोकसभाध्यक्षः ओमबिरला इत्येतै: सह अन्यैः नेतृभिः शुक्रवासरे देशवासिभ्यः रक्षाबन्धनपर्वणः हार्दिक्य: शुभकामनाः प्रदत्ताः। राष्ट्रपतिः ‘एक्स’-सन्देशमाध्यमे
प्रतीकात्मक


नवदिल्ली, २८ अगस्तमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मू, उपराष्ट्रपतिः सी.पी. राधाकृष्णन्, लोकसभाध्यक्षः ओमबिरला इत्येतै: सह अन्यैः नेतृभिः शुक्रवासरे देशवासिभ्यः रक्षाबन्धनपर्वणः हार्दिक्य: शुभकामनाः प्रदत्ताः।

राष्ट्रपतिः ‘एक्स’-सन्देशमाध्यमे अवदत्— “देशे विदेशे च निवसद्भ्यः सर्वेभ्यः भारतीयेभ्यः रक्षाबन्धनपर्वणः हार्दिक्य: शुभकामनाः ददामि।

उपराष्ट्रपतिः अवदत् यत् अयं हर्षस्य अवसरः प्रेम्णः, स्नेहस्य परस्परसम्बन्धस्य च बन्धनं दृढतरं करोतु तथा च सर्वान् दया-सद्भाव-परस्परसम्मानानां मूल्यानां संरक्षणाय प्रेरयतु। सः सर्वेषां सुखस्य, शान्तेः समृद्धेश्च कामनां कृतवान्।

लोकसभाध्यक्षः ओमबिरला अवदत् यत् अयं पर्व अस्माकं देशस्य समृद्धसंस्कृतेः, पारिवारिकमूल्यानां आत्मीयतायाः च अखण्डसम्बन्धस्य प्रतीकम् अस्ति। रक्षाबन्धनं केवलं रक्षासूत्रबन्धनस्य पर्व न, अपि तु विश्वासस्य, सम्मानस्य, प्रेम्णः आजीवनं सहवर्तनस्य च सङ्कल्पस्य उत्सवः अस्ति। संस्कृतौ रक्षायाः अर्थः केवलं भगिन्याः सुरक्षायां सीमितः नास्ति, अपि तु महिलानां सम्मानस्य, गरिमायाः, अधिकाराणां तासां स्वप्नानां च रक्षणस्य सङ्कल्पोऽपि अस्ति।

केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः अवदत् यत् एतत् पर्व सर्वेषां जीवने सुखं, शान्तिं समृद्धिं च आनयतु। संसदीयकार्यमन्त्री किरेनरिजिजू अवदत् यत् सः ईश्वरं प्रार्थयते यत् सः सर्वेषां जीवने सुखं, समृद्धिं प्रसन्नतां च प्रददातु।

रक्षामन्त्री राजनाथसिंहः अवदत् यत् भ्रातृभगिन्योः अखण्डस्नेहस्य, परस्पर-विश्वासस्य आत्मीयतायाश्च अयं पर्व देशस्य समृद्धां सांस्कृतिकपरम्परां मूल्यानि च सुन्दररूपेण प्रदर्शयति। अयं पर्व महिलानां सम्मानस्य, सुरक्षायाः गरिमायाश्च कृते प्रतिबद्धाः भवितुं प्रेरणामपि ददाति।

केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी अवदत् यत् रक्षाबन्धनस्य एतत् पावनं पर्व भ्रातृभगिन्योः प्रेम्णः, स्नेहस्य वचनबद्धतायाश्च प्रतीकम् अस्ति। केन्द्रीयपेट्रोलियमप्राकृतिकवायुमन्त्री हरदीपसिंहपुरी अवदत् यत् एतत् पावनं पर्व भ्रातृभगिन्योः मध्ये प्रेम्णः, विश्वासस्य स्नेहस्य च बन्धनं अधिकं दृढं करोतु तथा च सर्वेषां जीवने सुखसमृद्धिम् आनन्दं च आनयतु।

काङ्ग्रेसदलस्य राष्ट्रीयाध्यक्षः मल्लिका-र्जुनखरगे अवदत् यत् रक्षाबन्धनस्य पवित्रं पर्व भ्रातृभगिन्योः मध्ये प्रेम्णः, विश्वासस्य अखण्डसम्बन्धस्य च उत्सवः अस्ति। एतत् पर्व सर्वान् परस्परसम्मानस्य, समानतायाः परस्परं प्रति उत्तरदायित्वस्य च भावनया अपि संयोजयति। सः कामनां कृतवान् यत् राखी इति पवित्रं बन्धनं सर्वेषां देशवासिनां जीवने प्रेम्णः, ऐक्यस्य सद्भावनायाश्च भावं अधिकं दृढं करोतु।

लोकसभायां विपक्षनेता राहुलगान्धी अवदत् यत् भ्रातृभगिन्योः मध्ये स्नेहस्य सूत्रैः बद्धम् इदं अखण्डं बन्धनं प्रेम्णा विश्वासेन च अधिकं दृढं भवतु।

Hindusthan Samachar / Divya Ranjan