Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, २८ अगस्तमासः (हि.स.)। श्रीजगन्नाथमन्दिरे अद्य श्रावणशुक्ल-पक्षस्य पूर्णिमातिथौ रक्षाबन्धनस्य विधानं रियासत्कालीन-परम्परानुसारं श्रद्धाभक्तिपूर्वकं सम्पन्नम्। शुक्रवासरे प्रातः ६:५५ वादने शुभमुहूर्ते मन्दिरस्य पुजारीभिः विधिवत् पूजाऽर्चनं वेदमन्त्राणां च उच्चारणं कृत्वा रक्षासूत्रम् अर्पितम्। ततः परं भगवते बालभोगः समर्पितः।
श्रीजगन्नाथमन्दिरस्य पण्डितः सुभाशुपाढी अवदत् यत् अस्मिन् पावने अवसरे श्रीजगन्नाथमन्दिरस्य पुजारिभिः परम्परानुसारं भगिन्याः सुभद्रायाः पक्षतः भ्रात्रे बलभद्राय महाप्रभवे श्रीजगन्नाथ-स्वामिने च रक्षासूत्रम् अर्पयित्वा रियासत्कालीनपरम्परायाः निर्वहनं कृतम्।
श्रीजगन्नाथमन्दिरस्य पण्डितः सुभाशुपाढी अवदत् यत् श्रीजगन्नाथपुरीधाम्नि महाप्रभवे पवित्रं ‘खण्डुआ’-वस्त्रम् अर्पयितुं तत् कलावरूपेण (रक्षासूत्ररूपेण) च सज्जीकर्तुं प्राचीनपरम्परा अस्ति। एषा परम्परा विशेषावसरेषु पर्वसु च सेवादारैः निर्वह्यते। रक्षाबन्धनस्य अन्येषां विशेषधार्मिकपर्वणां वा अवसरेषु महाप्रभवे श्रीजगन्नाथस्वामिने रेशमवस्त्रैः पारम्परिकबन्धेजकलायुक्तैः पवित्रवस्त्रैः सम्बद्धानि रक्षासूत्राणि अर्प्यन्ते, यानि अटूटश्रद्धायाः सुरक्षायाश्च प्रतीकानि सन्ति। एतेषां पवित्रवस्त्राणां सूत्राणि अंशाश्च कलावरूपेण (रक्षासूत्ररूपेण) अपि अनुष्ठानपूर्वकं सज्जीक्रियन्ते। महाप्रभवे समर्पणानन्तरं तानि भक्तेभ्यः आशीर्वादस्वरूपेण प्राप्यन्ते।
Hindusthan Samachar / Divya Ranjan