रियासतकालीनपरंपरानुसारं मां दंतेश्वर्यै अर्पितं रक्षासूत्रम्
दंतेवाड़ा, 28 अगस्तमासः (हि.स.)। जनपदस्य शक्तिपीठे श्रीमद्दन्तेश्वरीमन्दिरे शुक्रवासरे रियासतकालीनपरम्परानुसार रक्षाबन्धनपर्व श्रद्धया भक्तिभावेन च आचरितम्। अस्मिन् अवसरे बस्तरप्रदेशस्य आराध्यदेव्याः श्रीदन्तेश्वर्याः विशेषपूजाऽर्चना विधिविधानपूर
रियासतकाल परंपरानुसार मां दंतेश्वरी को अर्पित किया गया रक्षासूत्र


दंतेवाड़ा, 28 अगस्तमासः (हि.स.)।

जनपदस्य शक्तिपीठे श्रीमद्दन्तेश्वरीमन्दिरे शुक्रवासरे रियासतकालीनपरम्परानुसार रक्षाबन्धनपर्व श्रद्धया भक्तिभावेन च आचरितम्। अस्मिन् अवसरे बस्तरप्रदेशस्य आराध्यदेव्याः श्रीदन्तेश्वर्याः विशेषपूजाऽर्चना विधिविधानपूर्वकं सम्पन्ना। ततः कच्चसूत्रेण निर्मितं विशेषं रक्षासूत्रं बस्तरस्य आराध्यदेव्यै श्रीदन्तेश्यै समर्पितम्। श्रीदन्तेश्वर्यै रक्षासूत्रस्य समर्पणानन्तरं मन्दिरे विराजमानानां अन्येषां देवीदेवतानाम् अपि रक्षासूत्रबन्धनस्य परम्परा निर्वहिता।तदनन्तरं मन्दिरस्य पूजकाः सेवकाः च श्रीदन्तेश्वर्याः प्रसादस्वरूपं रक्षासूत्रं परस्परं कलाइयोः बद्ध्वा सुखसमृद्ध्योः कामनां कृतवन्तः।श्रीदन्तेश्वर्यै समर्पणार्थं सेवकैः कच्चसूत्रेण विशेषा राखी निर्मिता। रक्षासूत्रस्य निर्माणानन्तरं परम्परानुसारं मन्दिरेन सम्बद्धाः सेवकाः, मांझी, भण्डारी, राउत तथा टुड़पा इत्येते गाजावाद्यैः सह तत् रक्षासूत्रं नारायणमन्दिरस्य समीपे स्थितं शीतलासरोवरं प्रति नीतवन्तः। शीतलासरोवरे रक्षासूत्रं जलेन पवित्रीकृत्य गुडं, पुष्पाणि, चन्दनं तथा कुम्कुमं च समर्प्य विधिविधानपूर्वकं पूजाऽर्चना कृता। पूजायाः अनन्तरं रक्षासूत्रं पुनः दन्तेश्वरीमन्दिरं नीत्वा कलशस्थापनकक्षे स्थापितम्। ततः कच्चसूत्रेण निर्मिता विशेषा राखी श्रीदन्तेश्वरीदेव्यै समर्पिता।दन्तेवाडास्थितस्य श्रीदन्तेश्वरीमन्दिरस्य पूजकस्य शम्भूनाथस्य अनुसारम् एषा परम्परा रियासतकालात् एव प्रचलिता अस्ति। सर्वप्रथमं श्रीदन्तेश्वरीमन्दिरे परम्परानुसारं रक्षाबन्धनपर्व आचर्यते। मन्दिरे पर्वणः समापनानन्तरमेव क्षेत्रस्य जनैः रक्षाबन्धनपर्व आचरितुं परम्परा अस्ति। कालपरिवर्तनेऽपि दन्तेश्वरीमन्दिरे अद्यापि एषा प्राचीना परम्परा विधिविधानपूर्वकं श्रद्धया च निर्वह्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani