दरबारसाहिबे नतमस्तकः अभवत् केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः
चण्डीगढम्, २८ अगस्तमासः (हि.स.)। केन्द्रीयकृषि-कृषककल्याणमन्त्री शिवराजसिंहचौहानः रक्षाबन्धनस्य अवसरे शुक्रवासरे पञ्जाबराज्यस्य यात्रायै अमृतसरं प्राप्तवान्। सः सचखण्ड-श्रीहरिमन्दिरसाहिबे नतमस्तकः भूत्वा गुरुगृहस्य आशीर्वादं प्राप्तवान्। दरबारसाहि
केंद्रीय कृषि मंत्री शिवराज चाैहान दरबार साहिब में माथा टेकते हुए


माथा टेकने के बाद दरबार साहिब से बाहर आते केंद्रीय मंत्री शिवराज चाैहान


चण्डीगढम्, २८ अगस्तमासः (हि.स.)। केन्द्रीयकृषि-कृषककल्याणमन्त्री शिवराजसिंहचौहानः रक्षाबन्धनस्य अवसरे शुक्रवासरे पञ्जाबराज्यस्य यात्रायै अमृतसरं प्राप्तवान्। सः सचखण्ड-श्रीहरिमन्दिरसाहिबे नतमस्तकः भूत्वा गुरुगृहस्य आशीर्वादं प्राप्तवान्।

दरबारसाहिबे नतमस्तकत्वानन्तरं केन्द्रीयमन्त्री किञ्चित्कालं गुरुगृहे व्यतीतवान् तथा च लङ्गरसेवायां भागं गृहीतवान्। सः लङ्गरकक्षे पात्राणि प्रक्षाल्य सेवां कृतवान्। अस्मिन् अवसरे श्रद्धालूनां दलकार्यकर्तॄणां च मध्ये उत्साहः दृश्यते स्म। शिवराजसिंहचौहानः रक्षाबन्धनस्य रक्खड-पुनिया-मेलाप-कस्य च अवसरे पञ्जाबराज्यस्य यात्रायाम् अस्ति। सः पत्रकारैः सह वार्तालापे अवदत् यत् अत्र आगत्य नूतनस्य प्रकाशस्य ऊर्जायाश्च सञ्चारः अभवत्। गुरुगृहे सर्वे समानाः सन्ति। अद्य तस्य अत्र आगमनस्य सौभाग्यं प्राप्तमिति सः अवदत्।

केन्द्रीयमन्त्रिणः कार्यक्रमे कृषकैः सह मेलनं संवादश्च प्रमुखरूपेण अन्तर्भवति। ततः परं केन्द्रीयमन्त्री उमरानङ्गलग्रामे आयोजितायां ‘कृषकचौपाल’सभायां कृषकैः सह संवादं करिष्यति। अपरत्र बाबाबकालासाहिबे रक्खड-पुनिया-मेलापकेन सम्बद्धेषु कार्यक्रमेष्वपि तस्य सहभागितायाः कार्यक्रमः अस्ति।

Hindusthan Samachar / Divya Ranjan