Enter your Email Address to subscribe to our newsletters

कठुआ, 28 अगस्तमासः (हि.स.)।
रक्षाबन्धनस्य पावनावसरे श्रीरामनाटकसभया कठुआतः रामलीलामैदानस्थिते हनुमानमन्दिरे विधिवत् ध्वजारोहणं कृतम्। अस्मिन् अवसरे सभायाः प्रधानस्य नेतृत्वे श्रद्धालुभिः सदस्यैश्च ध्वजयात्रापि निष्कासिता। ध्वजारोहणेन सह आगामीषु नवरात्रेषु आयोज्यमानस्य रामलीलायाः मञ्चनस्य सज्जतायाः शुभारम्भोऽपि अभवत्। परम्परानुसारं रक्षाबन्धनस्य अनन्तरं रामनाटकसभायाः कलाकाराः रामलीलायाः विविधभूमिकानां कृते अभ्यासं प्रारभन्ते। अस्यैव क्रमस्य अन्तर्गतं शुक्रवासरात् कलाकारैः अभ्यासक्रमः प्रारब्धः।
उल्लेखनीयं यत् नवरात्रेषु कठुआनगरस्य रामलीलामैदाने रामलीलायाः भव्यं मञ्चनं क्रियते। अस्मिन् सभायाः कलाकाराः भगवान् श्रीरामस्य, लक्ष्मणस्य, मातुः सीतायाः, हनुमतः च सहितं विभिन्नानां पात्राणां भूमिकाः निर्वहन्ति। ध्वजारोहणेन सह रामलीलां प्रति कलाकारानाम् आयोजकानां च मध्ये उत्साहः दृश्यते।
---------------