प्रज्ञानानंदोऽरचत् इतिहासं, ग्रैंड चेस टूर फाइनलपर्धायाः विजेता प्राक् भारतीयः अवर्तत
सेंट लुइसम्, 28 अगस्तमासः (हि.स.)।भारतीयः ग्राण्डमास्टर् आर्. प्रज्ञानानन्दः अद्भुतं प्रत्यागमनं कृत्वा इतिहासं रचितवान्। सः गुरुवासरे फाबियानो करूआनां पराजित्य ग्राण्ड् चेस् टूर्-फाइनल्-विजेता भवितुं प्रथमः भारतीयक्रीडकः इति गौरवं प्राप्तवान्। फा
भारतीय ग्रैंडमास्टर प्रज्ञानानंद


सेंट लुइसम्, 28 अगस्तमासः (हि.स.)।भारतीयः ग्राण्डमास्टर् आर्. प्रज्ञानानन्दः अद्भुतं प्रत्यागमनं कृत्वा इतिहासं रचितवान्। सः गुरुवासरे फाबियानो करूआनां पराजित्य ग्राण्ड् चेस् टूर्-फाइनल्-विजेता भवितुं प्रथमः भारतीयक्रीडकः इति गौरवं प्राप्तवान्।

फाइनल्-स्पर्धायाः अन्तिमदिने प्रज्ञानानन्दः षड्भिः अङ्कैः महता अन्तरेण पश्चात् आसीत्, किन्तु सः अद्भुतं प्रदर्शनं कृत्वा उभे रैपिड्-बाजीः विजितवान्। ततः ब्लिट्ज्-स्पर्धायां दबावपूर्णे मुकाबलेऽपि अग्रतां धारयित्वा १५-१३ इति अङ्केन उपाधिं स्वनाम्ना कृतवान्।

एषा प्रज्ञानानन्दस्य क्रीडाजीवने अद्यावधि सर्वबृहती उपाधिः अस्ति। अस्याः विजयस्य सह तेन द्विलक्ष-अमेरिकीडॉलर्-परिमिता पुरस्कारराशिः प्राप्ता।

क्लासिकल्-मुकाबलानाम् अनन्तरं करूआनाः षडङ्कानां अग्रतां प्राप्तवान् आसीत्। तथापि प्रज्ञानानन्देन रैपिड् तथा ब्लिट्ज्-स्पर्धयोः मुकाबलस्य दिशां पूर्णतया परिवर्तिता। सः प्रथमं क्लासिकल्-मुकाबलं ०-६ इति अङ्केन पराजितवान्, यदा द्वितीयं मुकाबलं ३-३ इति अङ्केन समतायां समाप्तम्। तदनन्तरं सः उभे रैपिड्-मुकाबले विजित्य अग्रतां प्राप्तवान् तथा चतसृषु ब्लिट्ज्-बाजीषु ताम् अग्रतां संरक्षितवान्।

उपाधिविजयानन्तरं प्रज्ञानानन्दः अवदत् यत् सः एताम् उपाधिं विजित्य प्रसन्नः अस्ति। सः ग्राण्ड् चेस् टूर्-इत्येतत् विश्वचैम्पियनशिप्-अनन्तरं परम्परादृष्ट्या सर्वाधिकमहत्त्वपूर्णासु प्रतियोगितासु अन्यतमां प्रतियोगिताम् इति वर्णितवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani