शुभेन्दु-अधिकारिणा रक्षापूर्णिमायाः शुभकामनाः प्रदत्ताः, भ्रातृभगिन्योः अखण्डसम्बन्धस्य कामना
कोलकाता, २८ अगस्तमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्द्वधिकारी रक्षापूर्णिमायाः अवसरे प्रदेशवासिभ्यः शुभकामनाः अयच्छत्। तेन सामाजिक-सन्देशमाध्यमे सन्देशं प्रकाशित्य भ्रातृभगिन्योः मध्ये प्रेम्णः, विश्वासस्य, स्नेहस्य च सम्बन्धः अधिकं दृढ
शुभेंदु अधिकारी


कोलकाता, २८ अगस्तमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्द्वधिकारी रक्षापूर्णिमायाः अवसरे प्रदेशवासिभ्यः शुभकामनाः अयच्छत्। तेन सामाजिक-सन्देशमाध्यमे सन्देशं प्रकाशित्य भ्रातृभगिन्योः मध्ये प्रेम्णः, विश्वासस्य, स्नेहस्य च सम्बन्धः अधिकं दृढः भवतु इति कामना कृता।

मुख्यमन्त्री स्वकीयसन्देशे अवदत् यत् एकस्मिन् सूत्रखण्डे भ्रातृभगिन्योः प्रेम्णः, विश्वासस्य, स्नेहस्य च अखण्डं बन्धनं बद्धं तिष्ठतु। तेन भ्रातृभगिन्योः सम्बन्धः अधिकं मधुरः चिरस्थायी च भवतु इति कामना कृता।

शुभेन्द्वधिकारी अवदत् यत् सर्वेषां जीवने सुखं मङ्गलाशीर्वादश्च सदैव तिष्ठतु। तेन प्रदेशस्य सर्वेभ्यः जनभ्यः रक्षापूर्णिमायाः हार्दिकाः शुभकामनाः प्रदत्ताः।

Hindusthan Samachar / Divya Ranjan