बालिकानां स्वप्नान् साकारीकरोति द्विगुणित इंजनसंयंत्रस्य सर्वकारः - मुख्यमंत्री योगी
-15 कोटिसूत्रैः कलाकारेभ्यः जीविका, पर्वणा युक्तस्य सामाजिकस्वावलंबनस्य आर्थिकस्य विकासस्य च भावः : मुख्यमंत्री लखनऊ 28, अगस्तमासः (हि. स.)। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् रक्षाबन्धनपर्व केवलं रक्षासूत्रबन्धनस्य पर्व नास्ति, अपितु श्र
मुख्यमंत्री


-15 कोटिसूत्रैः कलाकारेभ्यः जीविका, पर्वणा युक्तस्य सामाजिकस्वावलंबनस्य आर्थिकस्य विकासस्य च भावः : मुख्यमंत्री

लखनऊ 28, अगस्तमासः (हि. स.)।

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् रक्षाबन्धनपर्व केवलं रक्षासूत्रबन्धनस्य पर्व नास्ति, अपितु श्रद्धायाः, विश्वासस्य, सम्मानस्य, आत्मसम्मानस्य, आत्मनिर्भरतायाश्च प्रतीकम् अस्ति। एतत् पर्व परिवारस्य समाजस्य च सम्बन्धान् दृढं कर्तुं सह स्थानीय-कारीगराणां हस्तशिल्पिनां च आर्थिकस्वावलम्बनेन अपि सम्बद्धम् अस्ति। अद्य पुत्रीभिः याः राख्यः मम हस्ते बद्धाः, तासु बह्व्यः ताभिः स्वहस्तैः निर्मिताः आसन्। प्रदेशे प्रायः १५ कोटि राख्यः बध्यन्ते। प्रत्येकस्याः राख्याः पृष्ठतः कस्यचित् कारीगरस्य, हस्तशिल्पिनः, विक्रेतुः, विपण्याः च आर्थिकक्रियाकलापः सम्बद्धः अस्ति। राख्याः क्रयणेन धनं कारीगरपर्यन्तं प्राप्नोति, ततः तत् विपण्यां पुनरागत्य विकासस्य गतिं वर्धयति।

मुख्यमन्त्री शुक्रवासरे ‘बिटिया और बहना-यूपी का गहना’ स्नेहबन्धनकार्यक्रमे सम्मिलितः अभवत्। अस्मिन् अवसरे सः अवदत् यत् श्रद्धया सम्मानेन च विश्वासः उत्पद्यते, विश्वासः आत्मसम्मानम् आत्मनिर्भरतां च दृढीकरोति तथा आत्मनिर्भरः समाजः एव विकासस्य गतिं तीव्रां करोति। एतस्याः एव भावनायाः आधारेण प्रदेशे पुत्रीणां सुरक्षायै, सम्मानाय, स्वावलम्बनाय च मिशन शक्तेः सञ्चालनं क्रियते। अधुना पुत्र्यः भयमुक्ताः भूत्वा विद्यालयं गच्छन्ति तथा शिक्षातः आरभ्य रोजगारपर्यन्तं प्रत्येकस्मिन् क्षेत्रे अग्रे वर्धन्ते।

दरिद्रपुत्रीणां कृते परिवर्तिता शिक्षाव्यवस्था

मुख्यमन्त्री स्वस्य कार्यकालस्य प्रारम्भिकदिनानां अनुभवम् अवर्णयन् अवदत् यत् एकस्मिन् भ्रमणावसरे तेन दरिद्रपरिवारस्य कतिपयाः बालिकाः अनवाणपादाः, गणवेशरहिताः च विद्यालयं गच्छन्त्यः दृष्टाः। तासां भ्रातृणां समीपे तु पादत्राणानि गणवेशश्च आसीत्। अस्य अनुभवस्य अनन्तरं तेन पुत्रीभ्यः द्वौ गणवेशौ, पुटकम्, पुस्तकानि, पादत्राणानि-मोजकानि तथा शीतकाले स्वेटरं प्रदातुं निर्णयः कृतः। अनन्तरं एषा सुविधा सर्वेषां आवश्यकतावद्भ्यः बालकेभ्यः अपि प्रदत्ता। अधुना प्रदेशे प्रायः १.६० कोटि बालकेभ्यः प्रतिवर्षं द्वौ गणवेशौ, पुटकम्, पुस्तकानि, पादत्राणानि-मोजकानि तथा स्वेटरं प्रदीयन्ते।

प्रदेशस्य सर्वेषु विकासखण्डेषु विद्यालयनिर्माणस्य प्रक्रिया प्रारब्धा

मुख्यमन्त्री अवदत् यत् कस्तूरबा-गान्धी-बालिका-विद्यालयेषु पूर्वम् अष्टमकक्षायाः अनन्तरं बहुसंख्याकाः पुत्र्यः अध्ययनं त्यजन्ति स्म। सर्वकारेण एतेषां विद्यालयानां द्वादशकक्षापर्यन्तं विस्तारस्य निर्णयः कृतः अस्ति तथा प्रदेशस्य सर्वेषु ८२५ विकासखण्डेषु विद्यालयानां निर्माणस्य प्रक्रिया प्रारब्धा अस्ति। अटल-आवासीय-विद्यालयेषु अपि पुत्रीणां संख्या वर्धिता अस्ति।

सैनिकविद्यालयात् रोजगारपर्यन्तं पुत्रीभ्यः समानावसरः

मुख्यमन्त्री योगी अवदत् यत् लखनऊस्थे परमवीरचक्रविजेतुः कैप्टन मनोज पाण्डेयस्य नाम्ना सञ्चालिते देशस्य प्रथमसैनिकविद्यालये वर्षे २०१८ पुत्रीणां प्रवेशस्य आरम्भः कृतः। अधुना देशस्य सर्वेषु सैनिकविद्यालयेषु पुत्रीभ्यः प्रवेशस्य मार्गः उद्घाटितः अस्ति। सर्वकारस्य लक्ष्यं पुत्रीभ्यः एतादृशं वातावरणं प्रदातुम् अस्ति, यत्र ताः स्वक्षमतानुसारं प्रगतिं कर्तुं शक्नुयुः।

३६ प्रतिशताधिकाः महिलाः नौकरी-रोजगारे संलग्नाः

मुख्यमन्त्री अवदत् यत् दीर्घकालं यावत् राज्ये महिलानां रोजगारक्षेत्रे सहभागिता अत्यल्पा आसीत्। स्वातन्त्र्यप्राप्तेः अनन्तरं प्रायः ७५ वर्षपर्यन्तं केवलं १२ प्रतिशतं महिलाः नौकरीरोजगारयोः संलग्नाः आसन्, किन्तु अधुना एषः प्रतिशतः ३६ प्रतिशताधिकः अभवत्। कार्यरतमहिलानां सुविधायै सुरक्षायै च बृहन्नगरेषु निःशुल्कछात्रावासानां निर्माणस्य उपक्रमः अपि अग्रे वर्धते। अधुना पुत्र्यः रात्रिपालिकायां कार्यं कर्तुं विषये अपि आत्मविश्वासेन अग्रे वर्धन्ते। एषः परिवर्तमानस्य उत्तरप्रदेशस्य महिलासशक्तीकरणस्य च महत्त्वपूर्णः चित्रः अस्ति।

रक्षाबन्धनपर्वणि महिलाभ्यः निःशुल्का बसयात्रा

मुख्यमन्त्री अवदत् यत् रक्षाबन्धनस्य अवसरे अगस्तमासस्य २७, २८, २९ दिनाङ्केषु उत्तरप्रदेशपरिवहननिगमस्य नगरीयबससेवानां च माध्यमेन महिलाभ्यः निःशुल्कयात्रायाः सुविधा प्रदत्ता अस्ति। काचित् पुत्री, भगिनी अथवा माता स्वेन सह एकं सहयात्रिणं नीत्वा एतेषु त्रिषु दिनेषु विनाशुल्कं यात्रां कर्तुं शक्नोति। तदनन्तरं ६० वर्षाधिकवयस्काभ्यः सर्वाभ्यः मातृभ्यः उत्तरप्रदेशपरिवहननिगमस्य बसयानेषु निःशुल्कयात्रायाः सुविधापि कार्यान्विता भविष्यति।

महिलानां सहभागिता केवलं विधिपालनपर्यन्तं सीमिता नास्ति

मुख्यमन्त्री अवदत् यत् अधुना जीवनस्य एतादृशं किमपि क्षेत्रं नास्ति, यत्र पुत्र्यः अग्रे न वर्धन्ते। प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे नारीशक्तिवन्दनाधिनियमस्य उल्लेखं कुर्वन् योगी अवदत् यत् महिलानां सहभागिता केवलं कानूनस्य पालनपर्यन्तं सीमिता न भविष्यति, अपितु ताः कानूननिर्मातृसंस्थासु अपि महत्त्वपूर्णां भूमिकां निर्वक्ष्यन्ति। पञ्चायतेषु महिलानां सहभागिता पूर्वमेव अस्ति तथा भविष्ये विधानसभायां लोकसभायां च अपि तासां भूमिका वर्धिष्यते इति अपेक्षा अस्ति।

प्रधानमन्त्री मोदीमहोदयस्य मार्गदर्शने सर्वकारः पुत्रीभिः सह दृढतया स्थितः

मुख्यमन्त्री रक्षाबन्धनस्य पावनावसरे प्रदेशस्य सर्वाभ्यः पुत्रीभ्यः, भगिनीभ्यः, मातृभ्यश्च शुभकामनाः प्रदाय अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः मार्गदर्शने डबल-इञ्जिन-सर्वकारः पूर्णदृढतया पुत्रीभिः सह स्थितः अस्ति। सः पुत्रीभ्यः परिश्रमेण स्वलक्ष्यस्य दिशि अग्रे वर्धितुं तथा प्रदेशस्य देशस्य च विकासे योगदानं दातुम् आह्वानं कृतवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani