रक्षाबन्धनपर्वणि काङ्ग्रेसजनैः बलिदानीविशालपाण्डेयस्य भगिनीभ्यः रक्षासूत्रं बद्धम्
वाराणसी, २८ अगस्तमासः (हि.स.)। रक्षाबन्धनस्य पावने पर्वणि शुक्रवासरे काङ्ग्रेसजनाः देशरक्षार्थं सर्वोच्चं बलिदानं दत्तवतः काश्याः सुपुत्रस्य बलिदानिन: विशालपाण्डेयस्य हुकुलगञ्जस्थितं निवासस्थानं गत्वा तस्य भगिनीभ्यः वैष्णवीपाण्डेयायै वर्तिकापाण्डेय
शहीद की बहनों से राखी बंधवाते कांग्रेस के नेता


वाराणसी, २८ अगस्तमासः (हि.स.)। रक्षाबन्धनस्य पावने पर्वणि शुक्रवासरे काङ्ग्रेसजनाः देशरक्षार्थं सर्वोच्चं बलिदानं दत्तवतः काश्याः सुपुत्रस्य बलिदानिन: विशालपाण्डेयस्य हुकुलगञ्जस्थितं निवासस्थानं गत्वा तस्य भगिनीभ्यः वैष्णवीपाण्डेयायै वर्तिकापाण्डेयायै च रक्षासूत्रं बबन्धुः। अस्मिन् अवसरे काङ्ग्रेसनेतृभिः कार्यकर्तृभिश्च शहीदस्य चित्रे पुष्पाणि समर्प्य तस्मै श्रद्धाञ्जलिः अर्पिता तथा तस्य अदम्यसाहसं देशभक्तिं बलिदानं च नत्वा सम्मानितम्। सहैव बलिदानीपरिवारस्य सुखदुःखयोः सदैव तेषां पार्श्वे स्थातुं सङ्कल्पः पुनरपि कृतः।

उल्लेखनीयं यत् वाराणसीनिवासी बलिदानी विशालपाण्डेयः २७ फरवरी २०१९ तमे वर्षे जम्मू-कश्मीरे बडगामे एमआई-१७ विमानस्य दुर्घटनायां देशसेवार्थं बलिदानं गतवान्। रक्षा-बन्धनस्य अवसरे विगतेभ्यः अनेकवर्षेभ्यः तस्य भगिनीभ्यः रक्षासूत्रं बन्धयित्वा स्नेहस्य एषा परम्परा निरन्तरं पाल्यते।

अस्मिन् वर्षे काङ्ग्रेसस्य प्रदेशाध्यक्षस्य पूर्वमन्त्रिणश्च अजयरायस्य काशीतः बहिः स्थितत्वात् सः स्वयं शहीदपरिवारस्य गृहम् आगन्तुं न शक्नवान्। तस्य निर्देशानुसारं महानगराध्यक्षः राघवेन्द्रचौबे तथा प्रदेशाध्यक्षस्य पुत्रः शान्तनुरायः इत्यादयः काङ्ग्रेसजनाः शहीदस्य निवासस्थानं गतवन्तः। तैः बलिदानिन: भगिनीभ्यः रक्षासूत्रं बन्धितं तथा परिवारं प्रति सम्मानम् आत्मीयतां च प्रकटितम्।

अस्मिन् अवसरे प्रदेशाध्यक्षः अजयरायः दृश्यकणिकामाध्यमेन बलिदानिन: विशालपाण्डेयस्य भगिनीभिः परिवारस्य सदस्यैश्च सह सम्भाषणं कृतवान्। सः रक्षाबन्धनस्य शुभकामनाः प्रदाय परिवारस्य कुशलक्षेमं पृष्टवान् तथा स्वस्नेहं आत्मीयतां च प्रकटितवान्।

Hindusthan Samachar / Divya Ranjan