रक्षाबंधने नि:शुल्कया बस यात्रया महिलाभ्योऽमिलत् सौविध्यं, प्रथम दिने एव नवलक्षात् अधिकस्य कृतं प्रयाणम्
-6.03 लक्षतः अधिक महिलाःअकुर्वन् प्रथमे दिने नि:शुल्कं यात्रा, सममेव 3.22 लक्षभ्यः सहयात्रिभ्योऽपि सुविधा लखनऊ, 28 अगस्तमासः (हि. स.)। रक्षाबन्धनपर्वणि योगी-सर्वकारस्य पक्षतः महिलाभ्यः भगिनीभ्यश्च प्रदत्ता निःशुल्क-बसयात्रायाः सुविधायाः प्रथम
मुख्यमंत्री


-6.03 लक्षतः अधिक महिलाःअकुर्वन् प्रथमे दिने नि:शुल्कं यात्रा, सममेव 3.22 लक्षभ्यः सहयात्रिभ्योऽपि सुविधा

लखनऊ, 28 अगस्तमासः (हि. स.)।

रक्षाबन्धनपर्वणि योगी-सर्वकारस्य पक्षतः महिलाभ्यः भगिनीभ्यश्च प्रदत्ता निःशुल्क-बसयात्रायाः सुविधायाः प्रथमदिने बहुसंख्याकाः यात्रिणः लाभम् अलभन्त। 27 अगस्त-दिनाङ्कात् प्रारब्धायां निःशुल्क-बसयात्रायां उत्तरप्रदेशराज्यसड़कपरिवहननिगमस्य बसयानेषु 6.03 लक्षाधिकाः महिलाः यात्रां कृतवत्यः। अपरतः महिलाभिः सह यात्रां कुर्वतां 3.22 लक्षाधिकानां सहयात्रिणामपि निःशुल्कयात्रायाः लाभः प्राप्तः। एवं प्रथमदिने समग्रतया 9.26 लक्षाधिकाः यात्रिणः शुल्कं विना यात्रां कृतवन्तः। परिवहननिगमस्य अनुसारं अस्याः निःशुल्कयात्रायाः कुलमूल्यं 9.06 कोटिरूप्यकेभ्यः अधिकम् आकलितम् अस्ति।

यूपीएसआरटीसी-प्रधानप्रबन्धकः (सञ्चालनम्) अनिलकुमारः शुक्रवासरे अवदत् यत् रक्षाबन्धनपर्वणि महिलाभ्यः कस्यापि प्रकारस्य असुविधा न भवेत् तथा च ताभ्यः सुगमा सुरक्षितयात्रा च प्रदातुं शक्येत, एतदर्थं परिवहननिगमस्य अधिकारिणः कर्मचारिणश्च युद्धस्तरे कार्यरताः सन्ति। सर्वकारस्य विभागप्रमुखस्य च निर्देशानुसारं यात्रिणां वर्धितां संख्यां दृष्ट्वा आवश्यकतानुसारं अतिरिक्तानि बसयानानि अपि मार्गेषु सञ्चालितानि। बसयानानां सञ्चालनस्य, यात्रिणां सुविधायाः व्यवस्थायाश्च विषये निगमस्य पक्षतः निरन्तरं निरीक्षणं क्रियते।

एतेषु पञ्चसु क्षेत्रेषु अद्यावधि सर्वाधिकः निःशुल्कसेवायाः लाभः

प्रथमदिने महिलानां ताभिः सह यात्रां कुर्वतां सहयात्रिणां च समग्रसंख्यायाः दृष्ट्या मुरादाबादक्षेत्रं सर्वाग्रे आसीत्। तत्र 62,586 महिलाभिः 32,203 सहयात्रिभिः च सह कुलम् 94,789 यात्रिणः निःशुल्कयात्रां कृतवन्तः। ततः हरदोय्याम् 82,920, गोरखपुरे 68,152, लखनऊक्षेत्रे 64,590 तथा बरेलीक्षेत्रे 58,309 यात्रिणः अस्याः सुविधायाः लाभम् अलभन्त। एतेषु पञ्चसु क्षेत्रेष्वेव कुलतः प्रायः 3.69 लक्षं यात्रिणः निःशुल्कयात्रां कृतवन्तः।

यात्रिभिः सर्वकारस्य पदक्षेपस्य प्रशंसा कृता

रक्षाबन्धनपर्वणि निःशुल्कयात्रायाः सुविधा प्राप्तेः कारणेन महिलाभिः सह तेषां सहयात्रिष्वपि हर्षस्य वातावरणम् आसीत्। यात्रिणः कथयन्ति यत् उत्सवावसरे बहुसंख्याकानां जनानां स्वगृहं गन्तुं आवश्यकता भवति। एवं निःशुल्क-बसयात्रया परिवाराणाम् उपरि पतितः आर्थिकभारः न्यूनीभूतः। महिलाभिः सह सहयात्रिणोऽपि योगी-सर्वकारस्य अस्याः पहलस्य प्रशंसां कुर्वन्ति। तथैव अतिरिक्तबसयानानां सञ्चालनात् अपि भीडस्य मध्ये स्वगृहं गन्तुं सुविधा प्राप्तेति यात्रिभिः उक्तम्।

परिवहननिगमेन निरीक्षणं क्रियते

निःशुल्कयात्रायाः लाभः पात्रयात्रिभ्यः एव प्राप्नुयात् तथा च सम्पूर्णप्रक्रियायां पारदर्शिता स्थिता भवेत्, एतदर्थं परिवहननिगमस्य दलानि विभिन्नेषु क्षेत्रेषु आकस्मिकनिरीक्षणमपि करिष्यन्ति। अनेन बसयानेषु निःशुल्कयात्रायाः व्यवस्थायाः निरीक्षणेन सह यात्रिभ्यः प्रदीयमानानां सुविधानामपि परीक्षणं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani