Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 28 अगस्तमासः (हि.स.)।
हरिद्वारे शुक्रवारदिने श्रीघाट मेहन्दीपुरबालाजी, राजस्थानस्य महन्तस्य नरेशपुरीमहाराजस्य पञ्चमः पाटोत्सवः श्रद्धया उल्लासेन च आचरितः। अस्मिन् अवसरे एकलक्षं पार्थिवशिवलिङ्गानां पूजनं वैदिकयज्ञश्च आयोजितौ। अत्र बहुसंख्यकाः साधुसन्ताः, महामण्डलेश्वराः श्रद्धालवश्च सहभागं कृतवन्तः।
महन्तः नरेशपुरी प्रतिवर्षं श्रावणमासे भगवान् शिवस्य विशेषामाराधनां करोति। अस्याः परम्परायाः अनुसारेण अस्मिन् वर्षे सम्पूर्णे श्रावणमासे एकलक्षं पार्थिवशिवलिङ्गानां विधिविधानपूर्वकं पूजनं कारितम्। शतशः वेदविद्वांसः वैदिकमन्त्राणां घोषस्य मध्ये यज्ञम्, अभिषेकं विविधांश्च धार्मिकानुष्ठानान् सम्पन्नवन्तः।
पाटोत्सवसमारोहे सन्तसमाजेन महन्तस्य नरेशपुरीमहाराजस्य धार्मिकसामाजिककार्याणां प्रशंसा कृता तथा च तस्मै शुभकामनाः प्रदत्ताः। सन्तैः उक्तं यत् श्रावणमासः भगवान् शिवस्य आराधनायै विशेषमहत्त्वं धारयति तथा च पार्थिवशिवलिङ्गपूजनस्य सनातनपरम्परायां विशिष्टमाध्यात्मिकं महत्त्वमस्ति। एतादृशाः आयोजनाः वैदिकसंस्कृतेः सनातनपरम्पराणां च संरक्षणे महत्त्वपूर्णां भूमिकां निर्वहन्ति।
श्रीपञ्चायती अखाडा महानिर्वाणी इत्यस्य सचिवः अखिलभारतीय-अखाडापरिषदः अध्यक्षश्च श्रीमहन्तः रविन्द्रपुरीमहाराजः महन्तं नरेशपुरीमहाराजं पाटोत्सवस्य शुभकामनाभिः अभिनन्द्य तस्य स्वस्थस्य दीर्घायुष्ययुक्तस्य च जीवनस्य कामनां कृतवान्। सः अवदत् यत् सन्तानां जीवनं धर्मस्य, अध्यात्मस्य, मानवकल्याणस्य च कृते समर्पितं भवति। एकलक्षपार्थिवशिवलिङ्गानां पूजनं वैदिकयज्ञश्च सनातनपरम्परायाः संरक्षणस्य संवर्धनस्य च दिशि महत्त्वपूर्णः प्रयासः अस्ति।
महन्तः नरेशपुरीमहाराजः अवदत् यत् श्रावणमासः भगवान् शिवस्य आराधनायै अत्यन्तं पवित्रः मन्यते। धार्मिकानुष्ठानानां माध्यमेन समाजे धर्मस्य आध्यात्मिकचेतनायाश्च सन्देशं प्रसारयितुं प्रतिवर्षं प्रयासः क्रियते। सः एकलक्षपार्थिवशिवलिङ्गपूजने सहयोगं कृतवद्भ्यः वेदविद्वद्भ्यः तथा च समारोहे समागतभ्यः सन्तेभ्यः श्रद्धालुभ्यश्च कृतज्ञतां प्रकटितवान्।समारोहे महामण्डलेश्वरः यतीन्द्रानन्दगिरिः सहिताः अनेकाः धर्माचार्याः सन्तश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani