दिल्ली इत्यस्य उपराज्यपाले महिला-सुरक्षाकर्मिभिः रक्षासूत्रं बद्धम्
नवदिल्ली, २८ अगस्तमासः (हि.स.)। दिल्ली इत्यस्य लोकनिवासे शुक्रवासरे उपराज्यपालस्य तरणजीतसिंहसन्धोः सुरक्षादले नियुक्ताभिः महिला-सुरक्षाकर्मिभिः तस्य हस्ते रक्षासूत्रं बद्धम्। अस्मिन् अवसरे उपराज्यपालेन एतत् अत्यन्तं भावुकम् अविस्मरणीयं च क्षणम् इति
दिल्ली के उपराज्यपाल तरनजीत सिंह संधू सुरक्षा कर्मी से राखी बंधवाते हुए।


नवदिल्ली, २८ अगस्तमासः (हि.स.)। दिल्ली इत्यस्य लोकनिवासे शुक्रवासरे उपराज्यपालस्य तरणजीतसिंहसन्धोः सुरक्षादले नियुक्ताभिः महिला-सुरक्षाकर्मिभिः तस्य हस्ते रक्षासूत्रं बद्धम्। अस्मिन् अवसरे उपराज्यपालेन एतत् अत्यन्तं भावुकम् अविस्मरणीयं च क्षणम् इति कथितम्।

उपराज्यपालः तरणजीतसिंहसन्धुः ‘एक्स’-इत्यत्र प्रकाशिते सन्देशे लिखितवान् यत् रक्षाबन्धनस्य अवसरे महिला-सुरक्षा-कर्मिणां स्नेहपूर्णेन भावेन लोकनिवासस्य वातावरणं प्रेम्णा, आत्मीयतया हर्षेण च परिपूर्णम् अभवत्। उपराज्यपालः अवदत् यत् प्रेम्णः विश्वासस्य च प्रतीकं रक्षाबन्धनं अस्मान् स्मारयति यत् सम्बन्धाः केवलं व्यक्तिगतसम्बन्धेषु सीमिताः न भवन्ति, अपितु परस्परसम्बन्धं सामुदायिकभावनां च सुदृढं कुर्वन्ति।

सः अवदत् यत् महिला-सुरक्षाकर्मिणां अयं स्नेहः तस्य कृते विशेषः भावुकश्च क्षणः अस्ति। अयं क्षणः अस्माकं सर्वेषां कृते अविस्मरणीयः अस्ति।

उपराज्यपालेन अस्मिन् अवसरे सर्वेभ्यः देशवासिभ्यः रक्षाबन्धनस्य शुभकामनाः प्रदत्ताः तथा च पर्वणः माध्यमेन परस्परप्रेम्णः, विश्वासस्य, भ्रातृत्व-भावनायाश्च अधिकं सुदृढीकरणस्य कामना कृता।

Hindusthan Samachar / Divya Ranjan