उपराष्ट्रपतिं, प्रधानमंत्रिणं समेत्य बहवो नेतारो 'विश्व संस्कृत दिवसस्य अददुः शुभकामनाः
नवदिल्ली, 28 अगस्तमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन् तथा प्रधानमन्त्री नरेन्द्रमोदी इत्येताभ्यः अतिरिक्तं केन्द्रीयमन्त्रिभिः शुक्रवासरे श्रावणपूर्णिमायाः अवसरे ‘विश्वसंस्कृतदिवसस्य’ शुभकामनाः प्रदत्ताः। उपराष्ट्रपतिः राधाकृष्णन् ‘ए
प्रतीकात्मक


नवदिल्ली, 28 अगस्तमासः (हि.स.)।

उपराष्ट्रपतिः सी. पी. राधाकृष्णन् तथा प्रधानमन्त्री नरेन्द्रमोदी इत्येताभ्यः अतिरिक्तं केन्द्रीयमन्त्रिभिः शुक्रवासरे श्रावणपूर्णिमायाः अवसरे ‘विश्वसंस्कृतदिवसस्य’ शुभकामनाः प्रदत्ताः।

उपराष्ट्रपतिः राधाकृष्णन् ‘एक्स’ इत्यत्र लिखितवान्— “विश्वसंस्कृतदिवसस्य हार्दिकाः शुभकामनाः! संस्कृतं भारतस्य ज्ञानस्य, दर्शनस्य सभ्यतायाश्च शाश्वती भाषा अस्ति। शताब्देभ्यः इयं भाषा अस्माकं समृद्धां सांस्कृतिकपरम्पराम् बौद्धिकपरम्परां च आकारं दत्तवती अस्ति। आगच्छन्तु, वयं संस्कृतस्य अस्य अमूल्यनिधेः संरक्षणं, प्रोत्साहनं प्रसारणं च कर्तुं संकल्पं कुर्मः। अपि च आधुनिके जगति तस्याः महत्त्वं वर्धयित्वा भाविपीढीं तस्याः शाश्वतज्ञानपरम्परया संयोजयेम।”

प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत्— “इयं भाषा भारतस्य ज्ञानस्य, विचारस्य सृजनात्मकतायाश्च सततं वहिनी अभवत्। अनेकेषु क्षेत्रेषु अद्यापि तस्याः सकारात्मकः प्रभावः दृश्यते। अस्मिन् विशेषे दिवसे भारतस्य विश्वस्य च ये संस्कृतस्य अध्ययनं अध्यापनं च कुर्वन्ति, तेषां कृते शान्तेः कामनां कुर्मः। ते संस्कृते विद्यमानान् दिव्यज्ञानराशीन् भाविपीढ्यै प्रापयितुं प्रयतन्ते।”

लोकसभाध्यक्षः ओमबिरला उक्तवान्— “संस्कृतं भारतस्य गौरवम् अस्ति, यस्य श्रावणमासस्य पूर्णिमायां ‘संस्कृतदिवसः’ इति रूपेण उत्सवः आचर्यते। संस्कृतेन सहस्रशः वर्षेभ्यः भारतस्य ज्ञानपरम्परा समृद्धा कृता अस्ति। इयं केवलं संवादस्य भाषा न, अपितु भारतस्य मेधा, चिन्तनं, दर्शनं संस्कृतिं च जीवन्तं भाण्डारम् अस्ति। इयं भाषा सर्वान् स्वमूलैः संयोजयन्ती कडिका अस्ति, तथा च तर्कस्य ज्ञानस्य आध्यात्मिकतायाश्च अद्भुतसमन्वयस्य प्रतीकमपि अस्ति। संस्कृतस्य संरक्षणं भाविपीढ्यै च तस्याः प्रसारणं अस्माकं समृद्धसभ्यतायाः, संस्कृतेः ज्ञानपरम्परायाश्च संरक्षणस्य अग्रे संवर्धनस्य च संकल्पः अस्ति।”

केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः उक्तवान्— “संस्कृतं भारतस्य ज्ञानस्य, संस्कृतेः चेतनायाश्च परम्परायाः मूलाधारम् अस्ति। यथा इयं प्राचीना अस्ति, तथैव वैज्ञानिकदृष्ट्या अपि अत्यन्तं समृद्धा अस्ति। संस्कृते रचिताः अस्माकं वेदाः, उपनिषदः शास्त्राणि च शताब्देभ्यः मानवतायै ज्ञानस्य मार्गं प्रशस्तं कुर्वन्तः सन्ति। तेभ्यः सर्वेभ्यः विद्वद्भ्यः शिक्षकेभ्यश्च नमनं कुर्मः, ये संस्कृतभाषायाः संरक्षणे तस्याः भाविपीढ्यै सम्प्रेषणे च अविस्मरणीयं योगदानं कृतवन्तः।”

रक्षामन्त्री राजनाथसिंहः उक्तवान्— “देववाणी संस्कृतभाषा भारतस्य ज्ञानस्य, संस्कृतेः चिन्तनस्य च समृद्धपरम्परायाः अमूल्यनिधिरस्ति। सहस्रशः वर्षेभ्यः इयं देशस्य सभ्यतायै मार्गदर्शनं कृत्वा जीवनमूल्यानां सुदृढं आधारं निर्मातुं महत्त्वपूर्णां भूमिकां निर्वहति। विविधेषु ग्रन्थेषु शास्त्रेषु च संस्कृतभाषायां संरक्षितं ज्ञानम् अद्यापि सांस्कृतिकचेतनां समृद्धयति। संस्कृतेन भारतस्य अनेकेषां भाषाणां साहित्यिकपरम्पराणां च समृद्धौ महत्त्वपूर्णं योगदानं कृतम् अस्ति। तथा च इयम् अस्माकं देशस्य विविधतां एकतासूत्रे बद्धुं महत्त्वपूर्णां भूमिकां निर्वहति।”

---------------

Hindusthan Samachar / Dheeraj Maithani