सिंहस्थ महाकुंभस्य सर्वाणि कार्याणि समयेन पूरयितुन निर्दिष्टानि : मुख्यमंत्री फडणवीसः
मुंबई, 28 अगस्तमासः (हि.स.)। मुख्यमन्त्री देवेन्द्रफडणवीसः अवदत् यत् सिंहस्थमहाकुम्भस्य सर्वाणि कार्याणि समयानुसारं पूर्णानि भविष्यन्ति। मुख्यमन्त्री देवेन्द्रफडणवीसः शनिवासरे नासिक-त्र्यम्बकेश्वर-कुम्भमेलाप्राधिकरणस्य पक्षतः ठक्कर-डोम-इत्यत्र प
सिंहस्थ महाकुंभस्य सर्वाणि कार्याणि समयेन पूरयितुन निर्दिष्टानि : मुख्यमंत्री फडणवीसः


मुंबई, 28 अगस्तमासः (हि.स.)।

मुख्यमन्त्री देवेन्द्रफडणवीसः अवदत् यत् सिंहस्थमहाकुम्भस्य सर्वाणि कार्याणि समयानुसारं पूर्णानि भविष्यन्ति।

मुख्यमन्त्री देवेन्द्रफडणवीसः शनिवासरे नासिक-त्र्यम्बकेश्वर-कुम्भमेलाप्राधिकरणस्य पक्षतः ठक्कर-डोम-इत्यत्र प्रारब्धस्य त्रिदिवसीयस्य सिंहस्थमहाकुम्भ-भक्तिसङ्गम-कार्यक्रमस्य उद्घाटनसमारोहे उपस्थितं जनसमूहम् सम्बोधयन् एतत् उक्तवान्।

मुख्यमन्त्री फडणवीसः अवदत् यत् सर्वकारेण २,५०० कोटिरूप्यकाणि व्ययित्वा साधुग्राम-स्थलं स्थायिरूपेण क्रेतुं महत्त्वपूर्णः निर्णयः कृतः अस्ति। एतत् स्थलं सम्यग्रूपेण व्यवस्थितं करिष्यते, येन भविष्ये कुम्भमेलायै तस्य उपयोगः कर्तुं शक्येत। कुम्भमेलायै श्रद्धालूनां कृते आवश्यकाः मार्गाः, आधारभूतसंरचनासुविधाः तथा विभिन्नाः नागरिकसुविधाः निर्मीयन्ते। यदि साधुग्रामस्थलस्य विषये नागरिकानां कृषकाणां वा काचित् शिकायत् अस्ति, तर्हि तां गम्भीरतया स्वीकरिष्यते। सुधारं कर्तुं तथा सम्बद्धेभ्यः जनभ्यः उचितं क्षतिपूर्तिं प्रदातुं प्रयासः करिष्यते।

मुख्यमन्त्री अवदत् यत् कुम्भमेलायै व्ययितस्य धनस्य उपयोगः नासिक-त्र्यम्बकेश्वरयोः जनपदयोः दीर्घकालिकानां आधारभूतसंरचनासुविधानां निर्माणाय करिष्यते। यतः सिंहस्थकुम्भमेलस्य सज्जतायै एकस्मिन् समये बृहद्प्रमाणेन कार्याणि प्रचलन्ति, अतः नासिक-त्र्यम्बकेश्वरक्षेत्रयोः नागरिकानां किञ्चित् असुविधा भवति। सर्वकारः प्रशासनं च अस्य विषये अवगतौ स्तः, कार्याणां पूर्णतायां नागरिकाः एतानि कार्याणि निश्चितरूपेण स्वागतीकरिष्यन्ति।

सिंहस्थकुम्भमेलस्य सज्जताः समये एव पूर्णाः भवेयुः इत्यर्थं सर्वेषां विभागानां मध्ये समन्वयः क्रियते। अपि च, अन्ये सर्वे सम्बद्धाः विभागाः कार्येषु गतिं वर्धितवन्तः। सर्वकारः कार्येषु उत्पद्यमानानां बाधानां शीघ्रं निवारणाय तथा सर्वेषां आवश्यकोपायानां पूर्तये प्रयतते। सर्वेषां सहयोगेन सर्वकारः सिंहस्थकुम्भमेलस्य सज्जतां सुरक्षितां, सुव्यवस्थितां सफलां च कर्तुं प्रतिबद्धः अस्ति, इति मुख्यमन्त्री श्री फडणवीसः अवदत्।

मुख्यमन्त्री फडणवीसः अवदत् यत् भारतीयसंस्कृतिः विश्वस्य प्राचीनतमा संस्कृतिषु अन्यतमा अस्ति। अस्माकं देशे सहस्रशः वर्षेभ्यः पूर्वमेव विज्ञानस्य, प्रौद्योगिक्याः तथा ज्ञानस्य विभिन्नासु शाखासु उन्नताः विचाराः विद्यमानाः आसन्। भारतीयसंस्कृतेः महान् बलं प्रश्नान् पृच्छितुं तथा नवीनविचारान् स्वीकरितुं विद्यमाना परम्परा अस्ति। महाकुम्भः भारतीयसंस्कृतेः, परम्परायाः, विविधतायाः च एकः महान् आविष्कारः अस्ति।

सिंहस्थकुम्भमेलस्य माध्यमेन नासिकनगरे सम्पूर्णदेशस्य विभिन्नानां भक्तिपरम्पराणां सङ्गमः द्रष्टुं लप्स्यते। पञ्जाबात् महाराष्ट्रपर्यन्तं, राजस्थानात् गुजरातपर्यन्तं तथा पूर्वोत्तरभारतस्य विभिन्नेभ्यः भागेभ्यः आगताः भक्तिपरम्पराः अस्मिन् समारोहॆ द्रष्टुं शक्यन्ते। सिंहस्थकुम्भमेलः भक्तिसङ्गमस्य माध्यमेन प्रारभ्यते तथा ३१ अक्टूबर्-दिने ध्वजारोहणं भविष्यति।

मुख्यमन्त्री फडणवीसः विश्वासं प्रकटितवान् यत् सन्तानाम् आशीर्वादेन सर्वेषां सहयोगेन च सिंहस्थकुम्भमेलः निर्विघ्नेन सफलतया च सम्पन्नः भविष्यति।

अस्मिन् अवसरे राज्यस्य जलसंसाधनमन्त्री तथा जनपदस्य पालकमन्त्री गिरीशमहाजनः, विपणनमन्त्री जयकुमाररावलः, उद्योगमन्त्री डॉ. उदयसामन्तः, शिक्षामन्त्री दादाजीभुसेः, महापौरः हिमगौरी अडके-अहेरः, सांसद् शोभा बच्छवः तथा राजाभाऊ वाजे च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani