Enter your Email Address to subscribe to our newsletters

गोपेश्वरम्, 28 अगस्तमासः (हि.स.)। रक्षाबन्धनस्य अवसरॆ शुक्रवासरे सङ्कल्पाभियानस्य अन्तर्गते वृक्षेभ्यः रक्षासूत्रं बध्वा तेषां संरक्षणस्य संकल्पः कृतः। अस्मिन् अवसरे चिप्को-आन्दोलनस्य नेता स्वर्गीयः चक्रधरः तिवारी इत्यस्य त्रयोदशे पुण्यतिथौ तस्य पर्यावरणसंरक्षणे सामाजिकसरोकारेषु च योगदानं स्मृत्वा श्रद्धाञ्जलिः समर्पिता।
कार्यक्रमे दर्शनः बत्र्वालः चक्रधरं तिवारीं ‘वृक्षऋषिः’ इति सम्बोध्य अवदत् यत् पर्यावरणसंरक्षणाय सामाजिकसरोकारेभ्यश्च तस्य योगदानं सर्वदा स्मरणीयं भविष्यति। तेन उक्तं यत् तिवारी-महोदयेन प्रकृतिसंरक्षणं जनाभियानेन सह संयोजयितुं महत्त्वपूर्णा भूमिका निर्वहिता।
सङ्कल्पाभियानस्य संयोजकः मनोजः तिवारी अवदत् यत् चक्रधरस्य तिवारिणः स्मृतौ तेन प्रदर्शिते मार्गे चलितुं संकल्पः कृतः। तेन सूचितं यत् विगतेभ्यः सार्ध-पञ्चदशवर्षेभ्यः रक्षाबन्धनस्य अवसरॆ वृक्षेभ्यः रक्षासूत्रं बध्वा तेषां संरक्षणस्य सन्देशः प्रदीयते।
तेन उक्तं यत् अभियानस्य उद्देश्यं बालकान् प्रकृतेः संस्कृतेश्च संरक्षणेन सह संयोजयितुं तथा तेषु पर्यावरणस्य प्रति संवेदनशीलतां संस्कारांश्च विकसितुं वर्तते। बालकान् प्रकृत्या सह संयोज्य एव पर्यावरणसंरक्षणस्य भावनां भाविपीढीं प्रति प्रेषयितुं शक्यते।
कार्यक्रमे बालकाः मातृशक्तयश्च अपि सहभागितां कृतवन्तः। अस्मिन् अवसरे सुधीरः चमोली, दीवानः नेगी, सतेश्वरी तिवारी, रश्मिः थपलियालः, मनोरमा हटवालः, मालमती रावतः, अर्नवः तिवारी, सीमा तिवारी, रेखा सती, सुमनः, मोली रौतेला इत्यादयः बहवः बालकाः महिलाश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani