Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 28 अगस्तमासः (हि.स.)।
रक्षाबन्धनस्य अवसरे एडिफाई वर्ल्ड विद्यालये रक्षासूत्र-श्वेतदिवससमारोहः हर्षोल्लासेन आयोजितः। अस्मिन् अवसरे विद्यार्थिभिः विविधासु सृजनात्मकक्रियासु सहभागं कृत्वा भ्रातृभगिन्योः प्रेम्णः, परस्परस्नेहस्य सौहार्दस्य च सन्देशः प्रदत्तः।
कक्ष्यायाः प्रथमात् सप्तमकक्ष्यापर्यन्तं विद्यार्थिनां कृते रक्षासूत्रनिर्माणस्य गतिविधिः आयोजिता। बालकैः विविधवर्णीयैः सूत्रैः, मणिभिः, रिबनैः तथा अन्याभिः सजावटीभिः सामग्रीभिः आकर्षकाणि रक्षासूत्राणि निर्मितानि। अस्याः गतिविधेः माध्यमेन विद्यार्थिभ्यः सृजनात्मकतायाः तथा सूक्ष्मकौशलस्य विकासेन सह ‘कृत्वा शिक्षणस्य’ अवसरः प्राप्तः।
नर्सरी, एलकेजी तथा यूकेजी-कक्ष्याणां लघुविद्यार्थिनोऽपि उत्साहेन समारोहस्य भागं स्वीकृतवन्तः। तेभिः रक्षाबन्धनसम्बद्धाः कविताः प्रस्तुताः, परस्परं तिलकं कृतं तथा भ्रातृत्वस्य प्रतीकरूपेण परस्परं रक्षासूत्राणि बद्धानि। मिष्टान्नानां वितरणेन बालकानाम् उत्साहः अधिकः वर्धितः।
विद्यालयस्य निदेशकः अधिवक्ता डॉ. पङ्कजहोलकरः तथा प्रधानाचार्यः प्रदीपगौड़ः विद्यार्थिभ्यः, अभिभावकेभ्यः तथा विद्यालयपरिवारस्य सर्वेभ्यः सदस्येभ्यः रक्षाबन्धनस्य शुभकामनाः प्रदत्तवन्तौ। ताभ्यां उक्तं यत् रक्षाबन्धनं केवलं भ्रातृभगिन्योः सम्बन्धस्य पर्व न, अपितु प्रेम्णः, विश्वासस्य, सुरक्षायाः सम्मानस्य च प्रतीकम् अस्ति। एतादृशाः आयोजनाः बालकान् भारतीयसंस्कृत्या परम्पराभिश्च सह संयोजयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।
Hindusthan Samachar / Dheeraj Maithani