Enter your Email Address to subscribe to our newsletters



-लोक भवने उल्लासेन आत्मीयतया च सह समाचरितं रक्षाबंधनं पर्व
देहरादूनम्, 28 अगस्तमासः (हि.स.)। रक्षाबन्धनस्य अवसरे शुक्रवासरे लोकभवने देशभक्त्या सामाजिकसरोकारैश्च सम्बद्धैः सांस्कृतिककार्यक्रमैः सह पर्व आचरितम्। प्रजापिता ब्रह्माकुमारी ईश्वरीयविश्वविद्यालयस्य भगिन्यः विभिन्नविद्यालयानां छात्राश्च राज्यपालाय लेफ्टिनेण्ट् जनरल् गुरमीतसिंहाय (सेवानिवृत्ताय) रक्षासूत्रं बध्वा तस्य स्वस्थस्य दीर्घायुष्ययुक्तस्य च जीवनस्य कामनां कृतवत्यः।
राज्यपालः सर्वासां भगिनीनां कृतज्ञतां व्यक्तं कुर्वन् अवदत् यत् रक्षाबन्धनं प्रेम्णः विश्वासस्य सामाजिकसौहार्दस्य च प्रतीकम् अस्ति। तेन उक्तं यत् एतत् पर्व केवलं भ्रातृभगिन्योः सम्बन्धे एव सीमितं नास्ति, अपि तु सुरक्षा-उत्तरदायित्वयोः परस्परसम्मानस्य च भावनां दृढीकर्तुं अवसरमपि प्रददाति।
तेन उक्तं यत् देशस्य सीमाः रक्षन्तः सैनिकाः आरभ्य समाजस्य परिवारस्य च सुरक्षायै कल्याणाय च योगदानं ददतां प्रत्येकं व्यक्तिं प्रति सम्मानप्रकटनं रक्षाबन्धनस्य भावनां व्यापकां करोति। बालकानां देशभक्त्या सामाजिकसरोकारैश्च सम्बद्धाः प्रस्तुतयः नूतनपीढीं राष्ट्रस्य समाजस्य च प्रति स्वकीयेषु दायित्वेषु जागरूकां कर्तुं माध्यमं भवन्ति।
अस्मिन् अवसरे सेपियन्स् विद्यालय-विकासनगरस्य, हिन्दुस्तान् स्काउट्स् एण्ड् गाइड्स् उत्तराखण्डस्य, समरवैलीविद्यालय-देहरादूनस्य तथा देवभूमि इन्टरनेशनल् पब्लिक् स्कूल-हरिद्वारस्य छात्राभिरपि राज्यपालाय रक्षासूत्रं बद्धम्। राज्यपालः छात्राणां उज्ज्वलभविष्यस्य कामनां कुर्वन् ताभ्यः आशीर्वादं प्रदत्तवान्।
कार्यक्रमे हिन्दुस्तान् स्काउट्स् एण्ड् गाइड्स् उत्तराखण्डस्य तथा समरवैलीविद्यालयस्य छात्राभिः देशभक्तिपरं समूह-नृत्यं प्रस्तुतम्। एस्.ओ.एस्. चिल्ड्रेन् विलेजस्य बालकैः ‘राम आयेंगे’ इति गीतं प्रस्तुतम्।
सेपियन्स् विद्यालयस्य छात्राभिः ‘रक्षाबन्धनम्—राष्ट्रस्य प्रत्येकस्य रक्षकस्य सम्मानः’ इति विषये लघुनाटिकायाः माध्यमेन देशस्य सुरक्षायां योगदानं कुर्वतां जवानानां प्रति सम्मानस्य कृतज्ञतायाश्च सन्देशः प्रदत्तः। अपरत्र देवभूमि इन्टरनेशनल् पब्लिक् स्कूलस्य छात्राभिः मादकद्रव्यविमुक्तिम् आधृत्य पथनाटिकायाः प्रस्तुति दत्ता तथा युवानः मादकद्रव्येभ्यः दूरं स्थातुं सन्देशः प्रदत्तः।
राज्यपालः बालकैः सह संवादं कृत्वा तेषां प्रस्तुतयः प्रशंसितवान्। अस्मिन् अवसरे छात्राभ्यः राज्यपालस्य ओरतः स्मृतिचिह्नानि अपि प्रदत्तानि।
कार्यक्रमे लोकभवनस्य अधिकारी-कर्मचारिणः तथा सम्बद्धविद्यालयानां शिक्षकाः उपस्थिताः आसन्।---
Hindusthan Samachar / Dheeraj Maithani