Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २९ अगस्तमासः (हि.स.)।
भारतीयजनतापक्षः काङ्ग्रेसं प्रति प्रत्याक्रमणं कुर्वन् राहुलगान्धिनं तस्य दलं च दलितविरोधिनौ अभिहितवान्। भाजपायाः प्रवक्ता गुरुप्रकाशपासवानः काङ्ग्रेसं प्रति तीव्रं प्रहारं कृतवान्। सः अवदत् यत् काङ्ग्रेसदलस्य तस्य युवराजस्य राहुलगान्धिनश्च दलितविरोधि-मुखं पुनरपि अनावृतम् अभवत्। शनिवासरे राहुलगान्धी अकस्मात् प्रथमं कस्यचित् घटनायाः विषये वक्तव्यं ददाति, अनेकदिनानन्तरं च प्राथमिकीं पञ्जीकारयितुं वदति। किन्तु प्रश्नः अस्ति यत् काङ्ग्रेसस्य कस्याः अपि घटनायाः गम्भीरतां ज्ञातुं एतावान् कालः किमर्थं भवति? राहुलगान्धी कस्य निर्देशस्य प्रतीक्षां कुर्वन् आसीत्? सः अवदत् यत् राहुलगान्धी निरन्तरं समाजः कथं विभज्येत, समाजविभाजनकारिणीशक्तीनां च कथं समर्थनं क्रियेत, इति प्रयतते तथा च असत्यं आधारं कृत्वा एकं आख्यानं निर्मातुं प्रयासं करोति।
शनिवासरे भाजपामुख्यालये आयोजितायां पत्रकारवार्तायां प्रवक्ता गुरुप्रकाशः उदाहरणं दत्त्वा अवदत् यत् वायनाडे यदा प्रियङ्कागान्धी नामाङ्कनं कर्तुं गतवती आसीत्, तदा गान्धिपरिवारः अन्तः आसीत्, काङ्ग्रेसाध्यक्षः मल्लिकार्जुनखरगे तु बहिः स्थितवान्। एतदेव काङ्ग्रेसस्य कथितस्य सामाजिकन्यायस्य मानसिकतां दर्शयति। अद्य काङ्ग्रेसः दलितसम्मानस्य सहभागितायाश्च विषये वदति, किन्तु इतिहासः साक्षी अस्ति यत् बाबासाहेब-डॉ. भीमराव-आम्बेडकरात् आरभ्य बाबू-जगजीवनरामपर्यन्तं काङ्ग्रेसस्य व्यवहारः कीदृशः आसीत्। बाबू-जगजीवनरामः इव वरिष्ठनेतापि काङ्ग्रेसं त्यक्तुं विवशः अभवत्।
सः अवदत् यत् काङ्ग्रेसाध्यक्षरूपेण मल्लिकार्जुनखरगे स्वीकृतः अस्ति, किन्तु किं काङ्ग्रेसेन कदापि तं मुख्यमन्त्रिपदाय स्थापयितुं गम्भीरतया विचारः कृतः? प्रश्नः अस्ति यत् दलितसमाजाय वास्तविकं सत्ताधिकारं सहभागिता च कदा प्राप्स्यते? काङ्ग्रेसस्य नेतारः पत्रकारसम्मेलनानि कृत्वा समाजं संयोजयितुं स्थाने समाजविभाजनकारिणीं राजनीतिं कुर्वन्ति। सः राहुलगान्धिनं प्रति प्रत्यक्षं प्रश्नं कृतवान्— यदि काङ्ग्रेसेन दलितसमाजाय एतावत् कार्यं कृतम् अस्ति, तर्हि विगतेषु वर्षेषु कृतानां दृढकार्याणां उदाहरणानि देशस्य पुरतः स्थापयतु।
सः अवदत् यत् अद्य एकस्य दलितपरिवारस्य कन्या देशस्य सर्वोच्चे संवैधानिकपदे आसीना अस्ति। भाजपासर्वकारेण बाबासाहेब-आम्बेड-करस्य सम्मानसम्बद्धानि अनेकानि कार्याणि कृतानि सन्ति। देहल्याम् आम्बेडकरकेन्द्रात् आरभ्य देशस्य सर्वत्र बाबासाहेबस्य सम्मानपर्यन्तं, अस्माकं सर्वकारेण तस्य विचाराणां परम्परायाश्च अग्रे संवर्धनस्य कार्यं कृतम् अस्ति। ओडिशा-छत्तीसगढादिषु राज्येषु आदिवासीसमाजस्य जनाः मुख्यमन्त्रिपदे स्थापिताः। एतत् केवलं प्रतीकात्मकं राजनीतिः न, अपि तु सत्तायां वास्तविकसहभागितायाः उदाहरणम् अस्ति। काङ्ग्रेसस्य राजनीतिं प्रति निरन्तरम् अयं प्रश्नः उत्थाप्यते यत् किं दलित-आदिवासीसमाजः केवलं निर्वाचनकाले एव स्मर्यते? निर्वाचनकाले मतपेणीरूपेण तस्य उपयोगः, सत्तायां च वास्तविक-सहभागितायाः अभावः— एषा एव काङ्ग्रेसस्य राजनीतेः परिचयः अभवत्।
सः अवदत् यत् काङ्ग्रेसं प्रति प्रश्नः करणीयः यत् तस्य शासनकाले दलितपरिवारैः वाल्मीकि-समाजेन च सह कीदृशः व्यवहारः कृतः तथा च तेभ्यः समानावसराः किमर्थं न प्रदत्ताः? काङ्ग्रेसस्य राजनीतेः परिचयः एव मतपेणीरूपेण समाजस्य मूल्याङ्कनं, ततः तस्यैव समाजस्य समस्याः निर्वाचन-विषयत्वेन प्रस्तोतुम् इति अभवत्। देशस्य दलितसमाजः अधुना केवलं घोषणाभ्यः न, अपि तु सम्मानम्, अधिकारं सत्तायां वास्तविकसहभागितां च इच्छति।
सुधांशुत्रिवेदिना काङ्ग्रेसं राहुलगान्धिनं च प्रति तीव्रः प्रहारः
सुधांशुत्रिवेदी अवदत् यत् काङ्ग्रेसस्य राहुलगान्धिनश्च मुखं दलितविरोधि-मुखम् अस्ति, नवसामन्तवादी च मुखम् अस्ति। काङ्ग्रेसदलस्य इतिहासं दृष्ट्वा सर्वं ज्ञातुं शक्यते। प्रश्नः उदेति यत् काङ्ग्रेसेन दलितसमाजाय वास्तविकराजनैतिक-सहभागितां प्रदातुं स्थाने तस्य निर्वाचनराजनीतौ उपयोगः किमर्थं कृतः? बाबासाहेब-डॉ. भीमराव-आम्बेडकरस्य निर्वाचनसम्बद्धाः ऐतिहासिकघटनाः देशः जानाति।
सुधांशुत्रिवेदी अवदत् यत् भाजपायाः विचारधारा सर्वथा भिन्ना अस्ति। वयं समाजे सामञ्जस्यं जनयितुम् इच्छामः, काङ्ग्रेसः तु वैमनस्यं जनयितुम् इच्छति। काङ्ग्रेसस्य वास्तविकं स्वरूपं सर्वेषां पुरतः अस्ति। सा मैकाले-माक्र्स-मौलानानां विचाराधारितम् अभिमतं अग्रे नेतुम् इच्छति।
Hindusthan Samachar / Divya Ranjan