भाजपादलं यूनः साधयितुं रणनीतौ कृतम् उपवेशनम्
नव दिल्ली, 29 अगस्तमासः (हि.स.)। भारतीयजनतापक्षः (भाजपा) देशस्य नूतनयुवपीढ्याः, अर्थात् जेन-जी इति कथ्यमानानां युवानां, मध्ये स्वस्य सम्पर्कं वर्धयितुं सज्जतां कुर्वन् अस्ति। अस्मिन् विषये विस्तृतविचारं कृत्वा अग्रिमकार्ययोजनां निर्मातुं शनिवासरे प
भाजपा


नव दिल्ली, 29 अगस्तमासः (हि.स.)। भारतीयजनतापक्षः (भाजपा) देशस्य नूतनयुवपीढ्याः, अर्थात् जेन-जी इति कथ्यमानानां युवानां, मध्ये स्वस्य सम्पर्कं वर्धयितुं सज्जतां कुर्वन् अस्ति। अस्मिन् विषये विस्तृतविचारं कृत्वा अग्रिमकार्ययोजनां निर्मातुं शनिवासरे पक्षस्य मुख्यालये एका महत्त्वपूर्णा सभा आहूता।

सूत्राणां कथनानुसारं पक्षाध्यक्षस्य नितिननवीनस्य अध्यक्षतायां आयोजितायां सभायां विभिन्नेभ्यः राज्येभ्यः प्रायः पञ्चचत्वारिंशत् नेतारः उपस्थिताः अभवन्। सभायां उपस्थितेषु प्रमुखनेतृषु राष्ट्रियमहासचिवा स्मृति ईरानी, केन्द्रीयग्रामीणविकासराज्यमन्त्री कमलेश पासवान, केन्द्रीययुवक्रीडाराज्यमन्त्री रक्षा खडसे, गोरखपुरस्य सांसदः रवि किशन, बांसुरी स्वराज, दिल्लीमन्त्री प्रवेश वर्मा, गुरु प्रकाश पासवान, हेमांग जोशी, योगेन्द्र चंदोलिया, राजू बिस्टा, गुजरातस्य उपमुख्यमन्त्री हर्ष सांघवी, छत्तीसगढस्य उपमुख्यमन्त्री विजय शर्मा, राज्यवर्धनसिंह राठौड़ इत्यादयः अनेकाः युवनेतारः तथा पदाधिकारिणश्च सम्मिलिताः आसन्।

सभायां देशस्य सर्वेभ्यः युवभ्यः संगठनस्य सह सम्बद्धीकरणस्य, युवानां संगठनस्य अन्तर्गतं अग्रे नेतुम्, नूतनराजनीतिकपरिमाणानां विषये विचारविमर्शस्य, भविष्ये आयोजनीयानां कार्यक्रमाणां रूपरेखायाः च विषये विस्तृततया चर्चा कृता।

युवानां परिवर्तमानां चिन्तनपद्धतिं, तेषां रुचि-अरुचीन्, तेषां समस्याः तथा भविष्यं प्रति तेषाम् अपेक्षाः अवगन्तुं च सभायां अनेकाः प्रमुखाः विषयाः चर्चिताः।

मन्यते यत् अस्याः सभायाः माध्यमेन भाजपा एतत् ज्ञातुं प्रयतिष्यते यत् अद्यतनः युवा देशं राजनीतिं च कथं पश्यति। आगामिकाले युवानां सक्रियसहभागितां वर्धयितुं भाजपा विशेषाभियानानां कार्यक्रमाणां च आयोजनाय अधिकं बलं दातुं शक्नोति।

-----------

Hindusthan Samachar / Dheeraj Maithani