Enter your Email Address to subscribe to our newsletters

पुंछः, 29 अगस्तमासः (हि.स.)। श्री श्रीबूढाअमरनाथमन्दिरे त्रिदिनपूर्वं प्रतिष्ठापितस्य भगवान् शिवस्य देवी पार्वत्याश्च प्रतीकरूपा पवित्रा रजतछड़ी राजगुरुमहामण्डलेश्वरस्वामिविश्वात्मानन्दसरस्वतीमहाभागस्य नेतृत्वे ढोलवाद्यैः सह कठोरसुरक्षाव्यवस्थायां पुंछजनपदस्य श्रीदशनामीअखाड़ामन्दिरं प्राप्तवती।
अस्मिन् अवसरे बहूनां जनानां प्रशासनिकानां पुलिसाधिकारिणां च उपस्थितौ पुलिसपक्षतः सलामी प्रदत्ता। ततः विधिवत् पूजनं कृत्वा छड़ी आगामीवर्षपर्यन्तं मन्दिरे स्थापिता। तेन सह श्रीबूढाअमरनाथयात्रायाः समापनमपि अभवत्।
परम्परानुसारं श्रावणमासे विश्वस्य सर्वेषु शिवमन्दिरेषु सह श्रीबूढाअमरनाथमन्दिरेऽपि भगवान् शिवस्य विशेषपूजाऽर्चना क्रियते। अस्यां यात्रायां देशस्य विभिन्नेभ्यः भागेभ्यः सहस्रशः यात्रिकाः श्रीबूढाअमरनाथमन्दिरं दर्शनपूजनार्थम् आगच्छन्ति।
तदनन्तरं रक्षाबन्धनपर्वणः द्विदिनपूर्वं पुंछस्य दशनामीअखाड़ामन्दिरात् श्रीबूढाअमरनाथमन्दिरं प्रति छड़ीयात्रा प्रस्थाप्यते। रक्षाबन्धनपर्वणः एकदिनानन्तरं सा छड़ी पुनः श्रीबूढाअमरनाथमन्दिरात् पुंछस्य दशनामीअखाड़ामन्दिरं प्रति आनीयते। अनेन सह श्रीबूढाअमरनाथयात्रायाः विधिवत् समापनं भवति।
---------------
Hindusthan Samachar / Dheeraj Maithani