क्रीडां प्रतिभाम् अन्वेष्टुं , राष्ट्रियं-अंताराष्ट्रिय मंचं यावत् प्राप्तुं सर्वकारः प्रतिबद्ध: मुख्यमंत्री
- 126 खिलाड़िभ्यः प्रशिक्षकेभ्यः राज्य खेल अलंकरणम्रायपुरम्, 29 अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः हॉकीक्रीडायाः जादूगरस्य मेजर् ध्यानचन्दस्य जयन्त्याः राष्ट्रियक्रीडादिवसस्य च अवसरे अद्य राजधानीरायपुरस्य पण्डितदीनदयाल-उपाध्याय-सभागारे आ
मुख्यमंत्री विष्णु देव साय  समारोह को संबोधित करते हुए


- 126 खिलाड़िभ्यः प्रशिक्षकेभ्यः राज्य खेल अलंकरणम्रायपुरम्, 29 अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः हॉकीक्रीडायाः जादूगरस्य मेजर् ध्यानचन्दस्य जयन्त्याः राष्ट्रियक्रीडादिवसस्य च अवसरे अद्य राजधानीरायपुरस्य पण्डितदीनदयाल-उपाध्याय-सभागारे आयोजिते राज्यक्रीडासम्मानसमारोहे प्रदेशस्य क्रीडाप्रतिभाभ्यः सम्मानं प्रदत्तवान्।

मुख्यमन्त्री सायः वर्ष २०२३-२४, २०२४-२५ तथा २०२५-२६ कृते १२६ उत्कृष्टक्रीडकानां प्रशिक्षकाणां च राज्यक्रीडासम्मानैः सम्माननं कृतवान्। समारोहे राज्यक्रीडासम्मानप्राप्तेभ्यः क्रीडकेभ्यः प्रशिक्षकेभ्यः च सह ५४० अन्येभ्यः क्रीडकेभ्यः अपि नगदप्रोत्साहनराशिः प्रदत्ता। एवं समग्रतया ६६६ क्रीडकानां प्रशिक्षकाणां च कृते १ कोटिः ७४ लक्षं १९ सहस्ररूप्यकाणां पुरस्कारप्रोत्साहनराशिः प्रदत्ता।

मुख्यमन्त्री विष्णुदेवसायः समारोहं सम्बोधयन् अवदत् यत् विगतेषु त्रिषु वर्षेषु राष्ट्रिय-अन्तरराष्ट्रीय-क्रीडास्पर्धासु उत्कृष्टं प्रदर्शनं कृतवद्भ्यः क्रीडकेभ्यः राज्यक्रीडासम्मानं प्रदीयते। राज्यसर्वकारः क्रीडकानां भविष्यं सुरक्षितं श्रेष्ठं च कर्तुं निरन्तरं पदक्षेपान् स्वीकरोति। सः अवदत् यत् अधुना एव प्रदेशस्य १५६ उत्कृष्टक्रीडकानां सूची प्रकाशिता अस्ति, येन तेषां शासकीयसेवायां नियुक्तेः मार्गः प्रशस्तः अभवत्। सः अवदत् यत् क्रीडकानां सम्माननं प्रोत्साहनं च प्रदातुं सह तेषां भविष्यस्य निर्माणमपि सर्वकारस्य प्राथमिकता अस्ति। अनेन प्रदेशस्य युवकेषु क्रीडां वृत्तिरूपेण स्वीकरणस्य विश्वासः अधिकं दृढः भविष्यति।

मुख्यमन्त्री अवदत् यत् छत्तीसगढस्य दूरस्थेषु जनजातीयक्षेत्रेषु च क्रीडाप्रतिभानां कश्चित् अभावः नास्ति। आवश्यकता अस्ति तासां प्रतिभानां परिचयस्य, अवसरप्रदानस्य समुचितप्रशिक्षणस्य च। एतदेव उद्दिश्य राज्यसर्वकारः विगतेभ्यः द्वाभ्यां वर्षेभ्यः बस्तर-ओलम्पिक् इति क्रीडास्पर्धायाः आयोजनं करोति।

सः अवदत् यत् बस्तर-ओलम्पिकस्य प्रथम आयोजने १ लक्षं ६५ सहस्रं युवानः भागं गृहीतवन्तः। द्वितीयवर्षे एषा संख्या वर्धित्वा ३ लक्षं ९१ सहस्रं यावत् अभवत्। एतादृशे महति प्रमाणे युवानां क्रीडाक्षेत्रे आगमनं बस्तरक्षेत्रे जायमानस्य सकारात्मकपरिवर्तनस्य युवानां वर्धमानस्य आत्मविश्वासस्य च प्रमाणम् अस्ति।

मुख्यमन्त्री अवदत् यत् सरगुजा-ओलम्पिकस्य माध्यमेन अपि स्थानीयप्रतिभाभ्यः अग्रे आगन्तुं अवसरः प्रदत्तः अस्ति। तेन सह छत्तीसगढे खेलो इण्डिया ट्राइबल गेम्स् इत्यस्य सफलम् आयोजनमपि कृतम्। एतेषाम् आयोजनानां माध्यमेन राज्यसर्वकारः प्रतिभानां अन्वेषणेन सह तेभ्यः प्रशिक्षणस्य प्रतिस्पर्धायाः च उत्तमं वातावरणं प्रददाति।

मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः छत्तीसगढे क्रीडानां क्रीडकानां च उन्नयनाय पञ्च मिशन इत्येतानि आधारीकृत्य कार्यं करोति। एतेषु मुख्यमन्त्री-क्रीडोत्कर्ष-मिशनम् अपि अन्तर्भवति। अस्य कृते १०० कोटिरूप्यकाणां बजटस्य प्रावधानं कृतम् अस्ति।

मुख्यमन्त्री अवदत् यत् क्रीडाप्रतिभानां उन्नयनाय प्रदेशे आधुनिकक्रीडाधारभूतसंरचनायाः तीव्रगत्या विकासः क्रियते। कुनकुरी, रायगढ तथा रायपुरे क्रीडासङ्कुलानि विकसितानि क्रियन्ते।

सः अवदत् यत् धनुर्विद्याक्रीडकानां कृते विश्वस्तरीयप्रशिक्षणसुविधाः उपलब्धं कर्तुं नवारायपुरे प्रायः ६७ कोटिरूप्यकाणां व्ययेन अकादम्याः निर्माणं क्रियते। तथैव पर्वतीय-कोरवा-समुदायस्य नैसर्गिकधनुर्विद्याप्रतिभायाः विकासाय पण्डरापाट् इत्यत्र प्रायः १८ कोटिरूप्यकाणां व्ययेन धनुर्विद्या-अकादमी विकसिताः क्रियते।

मुख्यमन्त्री अवदत् यत् छत्तीसगढस्य जनजातीयक्षेत्रेषु अनेकाः युवानः सन्ति, येषु क्रीडायाः स्वाभाविकी प्रतिभा विद्यते। तेभ्यः आधुनिकप्रशिक्षणं समुचितं मञ्चं च प्रदाय राष्ट्रिय-अन्तरराष्ट्रीयस्तरस्य क्रीडकाः निर्मातुं शक्यन्ते।

समारोहे उपमुख्यमन्त्री तथा क्रीडा-युवकल्याणमन्त्री अरुणसावः, केन्द्रीय-आवासन-नगरीयकार्यराज्यमन्त्री तोखनसाहुः, संस्कृतिमन्त्री राजेशअग्रवालः, तकनीकीशिक्षामन्त्री गुरुखुशवन्तसाहेबः, सांसद् बृजमोहनअग्रवालः तथा श्री विजयबघेलः विशिष्टातिथिरूपेण सम्मिलिताः।

Hindusthan Samachar / Dheeraj Maithani