Enter your Email Address to subscribe to our newsletters

संविधानसभया २९ अगस्त १९४७ तमे वर्षे सप्तसदस्यात्मिकायाः संविधानप्रारूपसमित्याः गठनं कृतम्। तदनन्तरदिने अर्थात् ३० अगस्त १९४७ तमे वर्षे समितेः सदस्यैः डॉ. भीमराव-अम्बेडकरः समितेः अध्यक्षरूपेण निर्वाचितः। समित्या द्विवर्षकालं स्वीकृत्य संविधानस्य प्रारूपं सज्जीकृतम्। तत् २६ नवम्बर १९४९ तमे वर्षे संविधानसभायाः समक्षं प्रस्तुतम्। अनन्तरं २६ जनवरी १९५० तमे वर्षे तत् प्रवर्तितं जातम् तथा च अस्माकं देशः गणतन्त्रराष्ट्रं जातम्।
महत्त्वपूर्णः घटनाक्रमः
१६५९ - मुगलशासकस्य शाहजहानस्य ज्येष्ठपुत्रः दाराशिकोहः तस्य कनिष्ठभ्रातुः औरङ्गजेबस्य आदेशेन मृत्युदण्डेन दण्डितः।
१६८२ - विलियम् पेनः इंग्लैण्डदेशात् प्रस्थितवान्। अनन्तरं सः अमेरिकादेशे पेन्सिल्वेनियानामकस्य उपनिवेशस्य स्थापनां कृतवान्।
१७८० - जनरल् बेनेडिक्ट् अर्नोल्डः वेस्ट-प्वाइण्ट् दुर्गे ब्रिटिशसेनायाः समक्षं आत्मसमर्पणं कर्तुं प्रतिज्ञां कृतवान्।
१८०६ - न्यूयॉर्कनगरस्य द्वितीयं दैनिकसमाचारपत्रं ‘डेली एडवर्टाइजर्’ अन्तिमवारं प्रकाशितम्।
१८३५ - ऑस्ट्रेलियादेशस्य प्रसिद्धस्य मेलबर्ननगरस्य स्थापना अभवत्।
१९२८ - भारते ‘द इण्डिपेण्डेन्स् ऑफ् इण्डिया लीग्’ इत्यस्य स्थापना कृता।
१९४७ - भारतीयसंविधानस्य प्रारूपनिर्माणाय डॉ. भीमराव-अम्बेडकरस्य नेतृत्वे समितेः गठनं कृतम्।
१९५१ - फिलीपीन्स्-अमेरिकादेशयोः मध्ये रक्षासन्धौ हस्ताक्षराणि कृतानि।
१९६३ - अमेरिकादेशस्य सोवियतसङ्घस्य च मध्ये संकटसमये व्हाइट हाउस तथा क्रेमलिनयोः मध्यं प्रत्यक्षसम्भाषणाय दूरभाषीय-हॉटलाइन-व्यवस्थायाः स्थापना कृता।
१९८४ - ‘डिस्कवरी’ नामकस्य अन्तरिक्षयानस्य प्रथमवारं प्रक्षेपणं कृतम्।
१९९१ - अजरबैजानदेशेन सोवियतसङ्घात् स्वातन्त्र्यस्य घोषणा कृता।
१९९९ - पूर्वी तिमोरस्य स्वातन्त्र्यार्थं जनमतसंग्रहः सम्पन्नः।
१९९९ - पूर्वी तिमोरस्य निवासिभिः इण्डोनेशियादेशात् स्वातन्त्र्यार्थं बहुमतपूर्वकं मतदानं कृतम्। संयुक्तराष्ट्रसंघेन ४ सितम्बर्-दिने परिणामस्य घोषणा कृता।
२००२ - ताइवानदेशे भूकम्पस्य कम्पनानि अनुभूतानि।
२००२ - कोनोको इन्क् तथा फिलिप्स् पेट्रोलियम् इत्यनयोः विलयेन ‘कोनोकोफिलिप्स्’ इति संस्था निर्मिता। सा अमेरिकादेशस्य तृतीया बृहत्तमा एकीकृता ऊर्जाकम्पनी तथा द्वितीया बृहत्तमा परिशोधनकम्पनी आसीत्।
२००३ - रूसीया पनडुब्बी बेरेंट्स्-सागरे निमज्जिता, नव जनाः मृताः। ऑस्ट्रेलियादेशेन विश्वनौकायनक्रीडायां स्वर्णपदकं प्राप्तम्।
२००३ - मुलायमसिंह यादवः तृतीयवारं उत्तरप्रदेशस्य मुख्यमन्त्री अभवत्।
२००७ - जर्मनीदेशस्य द्वौ वैज्ञानिकौ गुंटर् निमित्ज् तथा आल्फोन्स् स्टालहोफेन् च अल्बर्ट् आइन्स्टीनस्य सापेक्षतासिद्धान्तं मिथ्या सिद्धं कर्तुं शक्नुतः इति दावं कृतवन्तौ।
२००७ - नेपालस्य कोईराला-सर्वकारेण चत्वारः माओवादीविद्रोहिणः फ्रान्स्, डेन्मार्क्, ऑस्ट्रेलिया तथा मलेशियादेशानां राजदूतरूपेण नियुक्ताः।
२००७ - बाङ्गलादेशसर्वकारेण नोबेलपुरस्कारविजेतुः मुहम्मद-युनुसस्य सम्मानार्थं डाकटिकटं प्रकाशितम्।
२०१४ - दक्षिणाफ्रिकादेशस्य लेसोथोदेशस्य प्रधानमन्त्री टॉम थबानेः सेनया कृतस्य कथितसत्तापरिवर्तनप्रयासस्य अनन्तरं दक्षिणाफ्रिकादेशं पलायितवान्।
जन्म
१५५९ - जहाँगीरः (सलीमः) — अकबरस्य पुत्रः तथा मुगलवंशस्य शासकः।
१७९७ - मेरी शेली — प्रसिद्धस्य गॉथिक्-उपन्यासस्य ‘फ्रेंकेंस्टीन’ इत्यस्य लेखिका।
१८९५ - सरदार हुकमसिंहः — भारतीयराजनीतिज्ञः तथा पूर्वलोकसभाध्यक्षः।
१८८८ - कनाईलालदत्तः — भारतस्य स्वातन्त्र्यार्थं मृत्युदण्डं प्राप्तेषु अमरशहीदेषु अन्यतमः।
१९०० - बीरभान भाटिया — भारतीयचिकित्सकः।
१९०३ - भगवतीचरणवर्मा — हिन्दीभाषायाः प्रमुखः साहित्यकारः।
१९१८ - बिनायक आचार्यः — ओडिशाराज्यस्य नवमः मुख्यमन्त्री आसीत्।
१९१२ - नैंसी वेक् — द्वितीयविश्वयुद्धकाले प्रसिद्धासु महिलायोद्धृषु अन्यतमा आसीत्।
१९२३ - शैलेन्द्रः — हिन्दीचलचित्रजगतः प्रसिद्धः गीतकारः।
१९५४ - रविशङ्करप्रसादः — भारतस्य प्रमुखः राजनीतिज्ञः तथा वरिष्ठः अधिवक्ता।
२००१ - जैस्मिन् लंबोरिया — भारतस्य महिला-मुष्टियोद्धा।
निधन
१६५९ - दाराशिकोहः — औरङ्गजेबस्य आदेशेन हतः।
१९५२ - ओसबोर्न स्मिथः — भारतीय रिजर्व-वित्तकोषस्य प्रथमः गवर्नरः।
१९७६ - जी. पी. श्रीवास्तवः — हिन्दी-साहित्यकारः।
२००८ - कृष्णकुमार बिड़ला — प्रख्यातः उद्योगपतिः।
२०१४ - बिपिनचन्द्रः — प्रसिद्धः इतिहासकारः।
महत्त्वपूर्णाः अवसराः
राष्ट्रिय-लघु-उद्योग-दिवसः।
अन्ताराष्ट्रियः गुमशुदा-विवादित-व्यक्तिदिवसः।
Hindusthan Samachar / Dheeraj Maithani