Enter your Email Address to subscribe to our newsletters


- सर्वेभ्यः दत्ताः भुजरियापर्वणः शुभकामनाः
भोपालम्, 29 अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः शनिवासरे प्रातः उज्जयिन्यां स्थितं श्रीवाल्मीकि-धाम-सिद्धपीठम् (आश्रमम्) अगच्छत्। मुख्यमन्त्री डॉ. यादवः आश्रमे अनन्तश्रीविभूषितस्य 1008 स्वामिनः सोहनदासजी-महाराजस्य समाधौ प्रतिमायां च पुष्पाञ्जलिं समर्प्य दर्शनं पूजनं च कृत्वा प्रदेशस्य सुखसमृद्धेः कल्याणस्य च कामनाम् अकरोत्। मुख्यमन्त्री डॉ. यादवः वाल्मीकि-धामम् आगतस्य जाहरवीर-गोगादेवस्य निशानध्वजस्य अपि विधिविधानपूर्वकं छडीपूजनम् अकरोत्।
मुख्यमन्त्री डॉ. यादवः राज्यसभासदस्येन बालयोगिना सन्तेन उमेशनाथ-महाराजेन सह मिलित्वा तस्य शुभाशीर्वादम् अपि प्राप्तवान्। विधायकः अनिल जैन कालूहेडा, संजय अग्रवालः, उज्जैन-विकास-प्राधिकरणस्य उपाध्यक्षः मुकेश यादवः इत्यादयः अन्ये जनप्रतिनिधयः अपि उपस्थिताः आसन्।
मीडियाप्रतिनिधिभिः सह चर्चाम्
मुख्यमन्त्री डॉ. यादवः श्रीवाल्मीकि-धाम-सिद्धपीठ-आश्रमे दर्शनपूजनानन्तरं अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे देशः प्रत्येकस्मिन् क्षेत्रे प्रगतिं करोति। वर्तमानसमये आवश्यकम् अस्ति यत् साधुसन्तानाम् आशीर्वादेन वयं स्वस्य अतीतस्य गौरवं पुनः प्रतिष्ठापयेम। सः अवदत् यत् राज्यसभासदस्यः महन्तः उमेशनाथ-महाराजः अनेकवर्षेभ्यः उज्जैनस्य वाल्मीकि-धाम-आश्रमं चैतन्यमयं कृतवान्। वाल्मीकि-मुनेः आदर्शानां कार्याणां च जनजनपर्यन्तं प्रसारणाय बाबा जाहरवीर गोगामहाराजः स्वसर्वस्वम् अर्पितवान्।
मुख्यमन्त्री डॉ. यादवः अवदत् यत् अस्माकं सर्वेषां कृते सौभाग्यस्य विषयः अस्ति यत् बाबा महाकालस्य नगरे बाबा गोगामहाराजस्य ध्वजचिह्नानि निर्गमिष्यन्ति। अनेन सामाजिकसमरसतायाः एकात्मतायाश्च अद्भुतः सन्देशः सम्पूर्णे देशे प्रसारयिष्यते। मुख्यमन्त्री डॉ. यादवः सर्वेभ्यः प्रदेशवासिभ्यः भुजरिया-पर्वणः, श्रीकृष्ण-जन्माष्टम्याः, गोगा-नवम्याश्च शुभकामनाः अपि अयच्छत्।
---------------
Hindusthan Samachar / Dheeraj Maithani