Enter your Email Address to subscribe to our newsletters

- मुख्यमन्त्रिणा डॉ. यादवेन बोंदारीग्रामे ग्रामीणजनैः सह संवादः कृतः- बालाघाटजनपदस्य सर्वाङ्गीण-विकासाय २२५ कोटिरूप्यकाणां विकास-कार्याणां घोषणा कृता
भोपाल, २९ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् ये क्षेत्राः पूर्वं नक्सलवादेन प्रभाविताः आसन्, तेषु अधुना सुरक्षया सह विकासाय तथा विकासेन सह रोजगाराय अपि प्राथमिकता प्रदीयते। ग्रामीणजनानां कृते स्थानीयस्तरे आजीविकाया अवसरान् प्रदाय तेषाम् आयवृद्धये तथा युवजनान् रोजगार-स्वरोजगाराभ्यां संयोजयितुं विशेषप्रयत्नाः करिष्यन्ते।
एतां वार्तां मुख्यमन्त्री डॉ. यादवः शनिवासरे बालाघाटजनपदस्य पूर्वं नक्सलप्रभाविते बोंदारीग्रामे ग्रामवासिभिः सह संवादं कुर्वन् उक्तवान्। अस्मिन् अवसरे तेन क्षेत्रस्य विकासविषये तथा ग्रामीणजनानाम् आवश्यकतासु चर्चा कृता।
मुख्यमन्त्री डॉ. यादवः ग्रामीणजनैः सह चर्चाकाले पशुपालनस्य प्रोत्साहनम्, आवाससुविधा, पौष्टिकाहारस्य उपयोगस्य अभ्यासनिर्माणार्थं जनजागरूकता-भियानम्, वनविभागस्य सहयोगः, चिकित्साशिक्षासुविधाः तथा रोजगारा-वसराणां वर्धनम् इत्यादिषु विषयेषु चर्चा कृतवान्। तेन सम्बन्धिताधिकारिणः निर्देशिताः यत् एताः सर्वाः सुविधाः क्षेत्रे अधिकसुचारुरूपेण स्थापनीयाः तथा शासनस्य योजनानां लाभः प्रत्येकं पात्रपरिवारं यावत् प्रापणीयः।मुख्यमन्त्रिणा डॉ. यादवेन बालाघाट-जनपदस्य सर्वाङ्गीणविकासाय विभिन्न-विभागानां माध्यमेन २२५ कोटिरूप्यकाणां विकासकार्याणां घोषणा कृता। एतेषां कार्याणां माध्यमेन क्षेत्रे सामाजिकमूलभूताधोसंरचनायाः सुदृढीकरणं भविष्यति। मार्गाः, विद्युत्, पेयजलम्, शिक्षा, स्वास्थ्यं, आवासः, कृषिः, तत्सम्बद्धाः क्रियाकलापाः, रोजगारस्य तथा आजीविकाया अवसराणां विस्तारः च भविष्यति।
मुख्यमन्त्रिणा डॉ. यादवेन अधिकारिणः निर्देशिताः यत् पूर्वं नक्सलप्रभावितेषु सर्वेषु ग्रामेषु विकासकार्याणि सर्वोच्च-प्राथमिकतया क्रियमाणानि सन्ति इति सुनिश्चितं क्रियताम्। स्थानीय-संसाधनानां सम्भावनानां च आधारेण पशुपालनम्, कृषिः, उद्यानिकी, मत्स्यपालनम्, वनाधारिताजीविका तथा अन्याः रोजगारप्रदाः क्रियाकलापाः प्रोत्साहनीयाः।
सः उक्तवान् यत् बालाघाटः अधुना नक्सलवादं पश्चात् परित्यज्य तीव्रगत्या विकासस्य दिशि अग्रे गच्छति। सर्वकारस्य लक्ष्यं यत् अस्मिन् क्षेत्रे स्थायिशान्त्या सह सामाजिकस्य, सांस्कृतिक्याः तथा आर्थिकस्य विकासस्य गतिः वर्धेत। एतदर्थम् अत्रत्यः प्रत्येकं ग्रामः प्रत्येकं परिवारश्च विकासस्य मुख्यधारया संयोजनीयः।
अस्मिन् अवसरे विद्यालयशिक्षा-परिवहनमन्त्री तथा बालाघाटजनपदस्य प्रभारीमन्त्री उदयप्रतापसिंहः, लोक-स्वास्थ्ययान्त्रिकीमन्त्री श्रीमती सम्पत्तिया उईके, बालाघाटस्य सांसद् श्रीमती भारती पारधी, स्थानीयविधायकः संजयः उइके, विधायकः मधुभगतः, मुख्यसचिवः अशोकबर्णवालः, अन्ये जनप्रतिनिधयः, ग्रामसरपञ्चः तथा बहुसंख्याकाः ग्रामीणजनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan