Enter your Email Address to subscribe to our newsletters

भोपालम्, 29 अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रिणा डॉ. मोहन यादवेन हॉकी-क्रीडायाः जादूगरस्य महान् क्रीडकस्य मेजर ध्यानचन्दस्य जन्मजयन्त्याः अवसरे पुण्यस्मरणं कृत्वा तस्मै श्रद्धापूर्वकं नमनं कृतम्।
मुख्यमन्त्री डॉ. यादवः शनिवासरे ‘एक्स’ इत्यत्र उक्तवान् यत् मेजर ध्यानचन्दस्य जीवनं क्रीडायाः प्रति समर्पणस्य, अनुशासनस्य, राष्ट्रसेवायाश्च प्रेरणादायकम् उदाहरणम् अस्ति। तस्य जन्मदिवसः सम्पूर्णे देशे राष्ट्रियक्रीडादिवसरूपेण आचर्यते।
मुख्यमन्त्री डॉ. यादवः प्रदेशवासिभ्यः राष्ट्रियक्रीडादिवसस्य बधाईः शुभकामनाश्च प्रदाय उक्तवान् यत् अयं दिवसः क्रीडाप्रतिभानां प्रोत्साहनस्य सङ्कल्पं सुदृढं करोति। मुख्यमन्त्री डॉ. यादवः उक्तवान् यत् मध्यप्रदेशस्य सर्वकारः क्रीडाप्रतिभाभ्यः उत्तमावसरान्, आधुनिकसुविधाः आवश्यकसंसाधनानि च प्रदाय तान् राष्ट्रियस्तरीयासु अन्ता राष्ट्रियस्तरीयासु च प्रतियोगितासु अग्रे नेतुं निरन्तरं प्रयतते।
---------------
Hindusthan Samachar / Dheeraj Maithani