नेपाल आपदि बद्धाना बंगालस्य के लोगों के परिजनों से मुख्यमंत्री अकरोत् आभाषिकीं वार्तां, सुरक्षितनिर्वृत्तेः दापितो विश्वासः
कोलकाता, 29 अगस्तमासः (हि.स.)।नेपालदेशे जातया प्राकृतिकविपत्त्या प्रभावितानां पश्चिमबङ्गस्य लापतानां जनानां परिजनैः सह मुख्यमन्त्री शुभेन्द्वु अधिकारी शनिवासरे दृक्श्राव्यमाध्यमेन वार्तां कृतवान्। मुख्यमन्त्री भवानीभवनात् प्रभावितपरिवाराणां स्थितिं
नेपाल आपदा पीड़ित के परिजनों से बात करते मुख्यमंत्री


कोलकाता, 29 अगस्तमासः (हि.स.)।नेपालदेशे जातया प्राकृतिकविपत्त्या प्रभावितानां पश्चिमबङ्गस्य लापतानां जनानां परिजनैः सह मुख्यमन्त्री शुभेन्द्वु अधिकारी शनिवासरे दृक्श्राव्यमाध्यमेन वार्तां कृतवान्। मुख्यमन्त्री भवानीभवनात् प्रभावितपरिवाराणां स्थितिं ज्ञात्वा तेभ्यः सर्वसम्भवसहायतां प्रदातुं आश्वासनं दत्तवान्।

मुख्यमन्त्रिकार्यालयेन शनिवासरे निर्गतायां सूचनायां कथितं यत् राज्यसर्वकारः नेपालदेशे बद्धानां अथवा प्रभावितानां पश्चिमबङ्गनिवासिनां नागरिकाणां सुरक्षितपुनरागमनाय निरन्तरं प्रयत्नं कुर्वन् अस्ति। अस्मिन् विषये भारतीयदूतावासेन नेपालप्रशासनेन च सह निरन्तरं सम्पर्कः स्थापितः अस्ति।

मुख्यमन्त्री प्रभावितपरिवारान् आश्वासितवान् यत् अस्मिन् कठिनसमये राज्यसर्वकारः तेषां पार्श्वे दृढतया तिष्ठति। सर्वकारस्य पक्षतः लापतानां जनानां विषये सूचनासङ्ग्रहाय तेषां च सुरक्षितपुनरागमनं सुनिश्चितुं सम्बन्धिताधिकारिभिः सह समन्वयः क्रियते।

Hindusthan Samachar / Dheeraj Maithani