जेन-जीगणं साधयितुं रणनीतौ भाजपादलस्य महोपवेशनं, युवनेतारःअवगामयन्ति देशस्य वातावरणम्
नव दिल्ली, 29 अगस्तमासः (हि.स.)। भारतीयजनतापक्षः नवयुवसंततौ, अर्थात् जेन-जी इति कथ्यमानायां संततौ, स्वस्य प्रभावं सुदृढं कर्तुं रणनीत्याः विषये विशेषं बलं ददाति। युवानां परिवर्तमानं चिन्तनम्, तेषां प्राथमिकताः तथा वर्तमानसमस्याः अवगन्तुं पक्षेन स्व
नीतिन नवीन फाइल फोट


नव दिल्ली, 29 अगस्तमासः (हि.स.)। भारतीयजनतापक्षः नवयुवसंततौ, अर्थात् जेन-जी इति कथ्यमानायां संततौ, स्वस्य प्रभावं सुदृढं कर्तुं रणनीत्याः विषये विशेषं बलं ददाति। युवानां परिवर्तमानं चिन्तनम्, तेषां प्राथमिकताः तथा वर्तमानसमस्याः अवगन्तुं पक्षेन स्वस्य चयनितयुवनेतॄणां महत्त्वपूर्णा सभा आहूता अस्ति। इयं सभा भारतीयजनतापक्षस्य अध्यक्षेन नितिननबीनमहोदयेन आयोजितेति ज्ञायते।

सभा शनिवासरे प्रातः एकादशवादने भारतीयजनतापक्षस्य मुख्यालये भविष्यति। पक्षसूत्राणां अनुसारं देशस्य विभिन्नेभ्यः भागेभ्यः प्रायः पञ्चचत्वारिंशत् नेतारः सभायै आमन्त्रिताः सन्ति। प्रत्येकस्मात् राज्यात् द्वौ त्रयः वा नेतारः सभायां सम्मिलिताः भविष्यन्तीति सूचना अस्ति।

सभायां जेन-जी तथा युवपीढ्याः परिवर्तमानस्य मनोभावस्य, तेषां प्राथमिकतानां तथा तेषां समक्षं विद्यमानानां विविधसमस्यानां विषये विस्तरेण चर्चा भवितुं सम्भावना अस्ति। तदनन्तरं युवानां सम्बद्धानां विषयाणां राजनीतिक-साङ्गठनिकस्तरे कथं सम्यक्तया अवगमनं समाधानं च कर्तुं शक्यते, इत्यस्मिन् विषयेऽपि विचारविमर्शः भविष्यति। पक्षनेतृत्वस्य मुख्यं ध्यानं युवभिः सह संवादस्य विस्तारस्य तथा तेषाम् आकाङ्क्षाणां प्रत्यक्षरूपेण अवगमनस्य विषये भविष्यतीति अपेक्षा अस्ति।

अस्यां सभायां वर्तमानकेन्द्रीयमन्त्रिणः, वर्तमानाः पूर्वसांसदाश्च, पूर्वमन्त्रिणः, विधायकाः तथा विभिन्नेषु राज्येषु मन्त्रिपदं धारयन्तः नेतारश्च आमन्त्रिताः सन्ति। भारतीयजनतापक्षस्य नेतृत्वं विभिन्नेभ्यः राज्येभ्यः, क्षेत्रेभ्यः तथा विविधराजनैतिकानुभवसम्पन्नेभ्यः युवनेतृभ्यः सह प्रत्यक्षसंवादस्य माध्यमेन देशस्य युवानां चिन्तनम् अपेक्षाः च अवगन्तुम् इच्छति।

सभायां युवानां सम्बद्धेषु प्रमुखविषयेषु चर्चा भवितुं शक्नोति। तेषु रोजगारः, शिक्षा, प्रौद्योगिकी, अङ्कीयपरिवर्तनं तथा परिवर्तमानाः सामाजिक-आर्थिकप्राथमिकताः प्रमुखविषयाः भवितुमर्हन्ति। तदतिरिक्तं पक्षः युवभ्यः स्वस्य नीतिनां कार्यक्रमाणां च प्रभाविप्रसारं कथं वर्धयितुं शक्नोति तथा युवा मतदातृभिः सह संवादस्य नवीनपद्धतीनां विषये कथं विचारः कर्तुं शक्यते, इत्यस्मिन् विषयेऽपि मन्थनं कर्तुं शक्नोति।

भारतीयजनतापक्षस्य इयं सभा तस्मिन् समये भवति, यदा देशस्य राजनीतौ युवा मतदातॄणां भूमिका निरन्तरं महत्त्वपूर्णा भवति। मन्यते यत् पक्षस्य एषःप्रयत्नः जेन-जी तथा युवा मतदातॄणां मध्ये स्वस्य सम्पर्कं सुदृढं कर्तुं क्रियमाणायाः व्यापक-रणनीतेः एकः भागः अस्ति। आगामिकाले अस्याः सभायाः निष्पन्नाः सुझावाः पक्षस्य साङ्गठनिक-राजनैतिकरणनीत्यां समाविष्टाः कर्तुं शक्यन्ते।----------------

Hindusthan Samachar / Dheeraj Maithani