Enter your Email Address to subscribe to our newsletters


मण्डी, २९ अगस्तमासः (हि.स.)। मण्डीजनपदस्य धनोटूविकासखण्डस्य जैदेवीग्रामपञ्चायत्यां आत्मा-परियोजनायाः मण्डी इत्यस्य तत्त्वावधाने कृषकगोष्ठ्याः आयोजनं कृतम्। अस्यां गोष्ठ्यां प्रायः १७० कृषकाः प्रतिभागिनश्च भागं गृहीतवन्तः। गोष्ठ्यां कृषक-पंजीकरणस्य, प्राकृतिककृषेः तथा कृषिविभागस्य, उद्यानविभागस्य, पशु-पालनविभागस्य च विभिन्नानां योजनानां विषये सूचना प्रदत्ता।
कार्यक्रमे कार्यकारीनिदेशिका डॉ. प्राची मुख्यातिथिरूपेण सम्मिलिता अभवत्।
अस्मिन् अवसरे आत्मा-परियोजनायाः परियोजनानिदेशकः डॉ. राकेशपाटियालः, उपपरियोजनानिदेशिका डॉ. सोनलगुप्ता, सुन्दरनगरस्य विषयविशेषज्ञः डॉ. शमशेरसिंहः, केवीके-केन्द्रस्य वैज्ञानिकः डॉ. दिनेशयादवः, उद्यानविकासाधिकारिणी डॉ. अनुपमा, पशुपालनविभागस्य डॉ. विपिनः तथा कृषिप्रसाराधिकारी नवीनकुमारः इत्यादयः विभिन्नविभागानां अधिकारिणः विशेषज्ञाश्च उपस्थिताः आसन्। गोष्ठ्यां कृषकेभ्यः कृषकपंजीकरणस्य महत्त्वस्य, पञ्जीकरणप्रक्रियायाः तस्याः लाभानां च विषये जानकारी प्रदत्ता। विशेषज्ञैः प्राकृतिककृषेः वैज्ञानिकानां आर्थिकपक्षाणां च विषये चर्चा कृता। कृषिव्ययस्य न्यूनीकरणाय, प्राकृतिकसंसाधनानां संरक्षणाय तथा कृषेः स्थायित्वं लाभप्रदत्वं च वर्धयितुं विभिन्नानां उपायानां विषये अपि सूचना प्रदत्ता।
मुख्यातिथिः डॉ. प्राची कृषकान् प्राकृतिककृषिं दुग्धव्यवसायेन अन्यैः सहायककृषिव्यवसायैश्च संयोज्य आयस्य अतिरिक्तस्रोतांसि विकसितुं प्रेरितवती। न्यूनोत्पादकत्वयुक्तेषु समस्याग्रस्तेषु च क्षेत्रेषु हरिद्रायाः सदृशानां वैकल्पिकानां सस्यानां सम्भावनाः अन्वेष्टुं विचारं दत्तवती। कृषकैः विशेषज्ञैः सह संवादं कृत्वा स्वकीयाः समस्याः जिज्ञासाश्च प्रस्तुताः। तासां समस्याणां स्थले एव समाधानं कृत्वा आवश्यकं मार्गदर्शनं प्रदत्तम्। कार्यक्रमस्य आयोजनस्य कार्ये बीटीएम-एटीएम-कर्मचारिणां तथा ग्रामपञ्चायत-जैदेवीस्य प्रधानस्य पञ्चायतप्रतिनिधीनां च महत्त्वपूर्णं सहयोगं प्राप्तम्।
Hindusthan Samachar / Divya Ranjan