Enter your Email Address to subscribe to our newsletters

कठुआ, 29 अगस्तमासः (हि.स.)। राष्ट्रियक्रीडादिवसस्य अवसरे शनिवासरे कठुआ-नगरस्य क्रीडाङ्गणे हॉकी-क्रीडायाः आयोजनं कृतम्। प्रतियोगिता खेलो इण्डिया हॉकी-केन्द्रं कठुआ तथा हीरानगर हॉकी-क्लबः इत्यनयोः मध्ये अभवत्, यस्मिन् हीरानगर हॉकी-क्लबः २-१ इति अङ्कान्तरैः विजयम् अवाप्तवान्।
कार्यक्रमस्य प्रारम्भः महान् भारतीयः हॉकी-क्रीडकः मेजर् ध्यानचन्दः इत्यस्मै श्रद्धाञ्जलिं समर्प्य कृतः। अस्मिन् अवसरे तस्य जीवनं, उपलब्धयः तथा भारतीय-हॉकी-क्रीडायां तस्य योगदानं स्मृतम्।
मुख्यातिथिः क्रीडकैः सह परिचयं प्राप्य तान् क्रीडासु समर्पणेन, अनुशासनेन तथा परिश्रमेण अग्रे वर्धितुं प्रेरितवान्।
आयोजनस्य निरीक्षणं हॉकी-जम्मू-कश्मीर-सङ्घस्य कार्यकारी-सदस्येन शेलव् शर्मणा कृतम्, यदा संदीप् मलगोत्रः समन्वये सहयोगं प्रदत्तवान्। प्रतियोगितायां रोहित् शर्मा, सुखविन्दर् पाल् सिंहः तथा गुरिकपाल् सिंहः निर्णायकानां भूमिकां निर्वहितवन्तः।
कार्यक्रमे क्रीडकानां कृते जलपानस्य अपि व्यवस्था कृता आसीत्।
---------------
Hindusthan Samachar / Dheeraj Maithani