ओपन क्रॉस कंट्री इत्यस्यां प्रतियोगितायां में डीसीअधिकारी अकरोद्धावनं, कृतस्तेन शुभारंभः
रामगढ़म्, 29 अगस्तमासः (हि.स.)। रामगढे शनिवासरे राष्ट्रियक्रीडादिवसस्य शुभावसरे जिलाप्रशासनेन ‘मुक्तक्रासकण्ट्रीप्रतियोगिता २०२६’ इत्यस्य आयोजनं कृतम्। अस्यां प्रतियोगितायां जिलाधिकारी ऋतुराजः स्वयमेव धावित्वा क्रीडकानाम् उत्साहं वर्धितवान्। प्रत
प्रतियोगिता में शामिल लोग


उद्घाटन समारोह में शामिल अधिकारी


रामगढ़म्, 29 अगस्तमासः (हि.स.)।

रामगढे शनिवासरे राष्ट्रियक्रीडादिवसस्य शुभावसरे जिलाप्रशासनेन ‘मुक्तक्रासकण्ट्रीप्रतियोगिता २०२६’ इत्यस्य आयोजनं कृतम्। अस्यां प्रतियोगितायां जिलाधिकारी ऋतुराजः स्वयमेव धावित्वा क्रीडकानाम् उत्साहं वर्धितवान्।

प्रतियोगितायाः औपचारिकः शुभारम्भः पुरुषवर्गस्य कृते पटेलचौकतः, महिलावर्गस्य कृते छावणी-फुटबाल-क्रीडाङ्गणतः जिलाधिकारी ऋतुराजेन हरितध्वजं प्रदर्श्य कृतः। अस्मिन् अवसरे जिलाधिकारी केवलं हरितध्वजं न प्रदर्शितवान्, अपितु स्वयं धावकैः सह धावने भागमपि गृहीतवान् तथा क्रीडकानां मनोबलं उत्साहं च वर्धितवान्।

अवसरे जिलाधिकारी ऋतुराजः अवदत् यत् क्रीडाः अस्माकं शारीरिकमानसिकविकासाय अत्यन्तम् आवश्यकाः सन्ति। रामगढजनपदे प्रतिभानां कापि न्यूनता नास्ति। जिलाप्रशासनं युवभ्यः क्रीडाक्षेत्रे सर्वसम्भवसुविधां मञ्चं च प्रदातुं प्रतिबद्धम् अस्ति। अद्य आयोजितस्य सफलकार्यक्रमस्य कृते सर्वे प्रतिभागिनः विजेतारः क्रीडकाः च अभिनन्दनार्हाः सन्ति।

समारोहस्य समये जिलाप्रशासनस्य वरिष्ठाः अधिकारीगणाः, क्रीडाधिकारी, पुलिसबलस्य जवानाः तथा बहुसंख्याकाः क्रीडाप्रेमिणः सामान्यनागरिकाश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani