ममताबनर्जीमहोदयायाः कथनानि लक्ष्यीकृत्य दिलीपघोषस्य कटाक्षः
मालदा, २९ अगस्तमासः (हि.स.)।मालदानगरे चायापानेन सह आयोजितायां चर्चायां माध्यमप्रतिनिधीन् सम्बोधयन् पश्चिमबङ्गालस्य पञ्चायत-ग्रामीण-विकासमन्त्री भाजपानेता च दिलीपघोषः मुख्यमन्त्रिण्याः ममताबनर्जी-महोदयायाः तृणमूलकाङ्ग्रेसदलस्य च नीतिविषये तीव्रं प्र
चर्चा के दौरान उपस्थित दिलीप घोष


मालदा, २९ अगस्तमासः (हि.स.)।मालदानगरे चायापानेन सह आयोजितायां चर्चायां माध्यमप्रतिनिधीन् सम्बोधयन् पश्चिमबङ्गालस्य पञ्चायत-ग्रामीण-विकासमन्त्री भाजपानेता च दिलीपघोषः मुख्यमन्त्रिण्याः ममताबनर्जी-महोदयायाः तृणमूलकाङ्ग्रेसदलस्य च नीतिविषये तीव्रं प्रहारम् अकरोत्।

दिलीपघोषः ममताबनर्जीमहोदयायाः अन्ताराष्ट्रियन्यायालयं गन्तुं सम्बन्धिनः वक्तव्यस्य, तृणमूलशासनकाले महाविद्यालयेषु विश्वविद्यालयेषु च कथितस्य नियुक्ति-प्रवेशभ्रष्टाचारस्य तथा ममताबनर्जीमहोदयायाः पुनः सत्तायां प्रत्यागमनसम्बन्धिनां कथनानां विषये कटाक्षम् अकरोत्। सः अवदत् यत् ममताबनर्जीमहोदया कदापि न्यायालयस्य निर्णयान् न स्वीकृतवती।

कैथेड्रलरोडस्थाने तृणमूलछात्रपरिषदः सभायाः समये जाता कथिता अव्यवस्था इति विषयमधिकृत्य अपि दिलीपघोषः तृणमूलकाङ्ग्रेसदलस्य आलोचनाम् अकरोत्।

अस्मिन् समये तेन कोलकातानगर-निगमनिर्वाचने एनसीपीआई इत्यस्य एनडीए-गठबन्धनस्य सहयोगीरूपेण निर्वाचन-स्पर्धायाः सम्भावनाविषये अपि स्वप्रतिक्रिया प्रदत्ता। तथैव मुख्यमन्त्रिण्याः ममताबनर्जीमहोदयायाः प्रस्तावित-जनपदभ्रमणस्य घोषणां विषयीकृत्य अपि तेन स्वविचाराः प्रस्तुताः।

पञ्चायत-ग्रामीणविकासमन्त्री आवास-योजनाविषये अपि कठोरं दृष्टिकोणं स्वीकृत्य उक्तवान् यत् आवश्यकता-युक्तेभ्यः लाभार्थिभ्यः आवासप्रदानस्य नाम्ना ये जनाः लाभार्थिभ्यः धनं स्वीकृतवन्तः, तेषां विरुद्धं कार्यवाही करिष्यते।

दिलीपघोषः उक्तवान् यत् आवास-योजनायाः नाम्ना निर्धनेभ्यः आवश्यकतायुक्तेभ्यश्च जनेभ्यः धनं सङ्गृह्णन्तः जनाः केनापि प्रकारेण न क्षमिष्यन्ते, तेषां विरुद्धं आवश्यक-विधिककार्यवाही च करिष्यते।

Hindusthan Samachar / Divya Ranjan