Enter your Email Address to subscribe to our newsletters

रायपुरम्, २९ अगस्तमासः (हि.स.)। छत्तीसगढ़स्य वित्तमन्त्री ओपी चौधरी राष्ट्रियक्रीडादिवसस्य अवसरे देशस्य सर्वेभ्यः क्रीडकेभ्यः, क्रीडाप्रेमिभ्यः तथा क्रीडाजगति सम्बद्धेभ्यः जनेभ्यः हार्दिका-भिनन्दनानि शुभकामनाश्च प्रदत्तवान्।
वित्तमन्त्री चौधरी उक्तवान् यत् क्रीडाः केवलं पदकप्राप्तेः साधनत्वेन न सन्ति, अपितु ताः अनुशासनस्य, समर्पणस्य, परिश्रमस्य, आत्मविश्वासस्य तथा सामूहिकभावनायाः सदृशान् गुणान् विकसितुं सशक्तं माध्यमम् अपि सन्ति। क्रीडाः व्यक्तेः शारीरिकस्य मानसिकस्य च विकासेन सह राष्ट्रनिर्माणे अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति।
सः उक्तवान् यत् राष्ट्रियक्रीडादिवसः अस्मान् क्रीडासु जागरूकतां वर्धयितुं युवजनान् च क्रीडाभिः संयोजयितुं प्रेरणां ददाति। क्रीडाप्रतिभाभ्यः उचितावसरान्, संसाधनान् तथा प्रोत्साहनं प्रदाय भारतं क्रीडाक्षेत्रे नवीनोन्नतिशिखराणि प्रापयितुं शक्यते।
मन्त्री ओपी चौधरी देशवासिभ्यः, विशेषतः युवजनेभ्यः, क्रीडां स्वजीवनशैल्याः अङ्गं कर्तुम् आह्वानं कृत्वा उक्तवान् यत् स्वस्थाः नागरिकाः एव सशक्तराष्ट्रस्य दृढा आधारशिलाः भवन्ति। तेन सर्वान् प्रति स्वस्थस्य, सशक्तस्य तथा विजयीभारतस्य सङ्कल्पं अग्रे नेतुं स्वसहभागितां सुनिश्चितां कर्तुम् अपि आह्वानं कृतम्।
सः उक्तवान् यत् अस्माकं क्रीडकाणां परिश्रमः उपलब्धयश्च देशस्य गौरवं वर्धयन्ति। क्रीडाणां जनं जनं प्रति प्रसारं कृत्वा नवीनप्रतिभानां च प्रोत्साहनेन भारतस्य क्रीडाशक्तिः अधिकं सुदृढा भविष्यति।
Hindusthan Samachar / Divya Ranjan