ताशकन्दं प्राप्यैव राष्ट्रपतिना मोदी उष्णतया स्वागतम् प्राप्तम्, स्वातन्त्र्यस्मारके पुष्पाञ्जलिः समर्पिता
ताशकन्द:, २९ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे उज़्बेकिस्तानस्य राजधानीं ताशकन्दं प्राप्तवान्, यत्र राष्ट्रपतिना शौकत-मिर्जियोयेवेन तस्य उष्णतया स्वागतं कृतम्। प्रधानमन्त्री स्वागताय राष्ट्रपतिं मिर्जियोयेवं प्रति कृतज्ञतां प्र
प्रधानमंत्री नरेन्द्र मोदी का शनिवार उज्बेकिस्तान की राजधानी ताशकंद पहुंचने पर राष्ट्रपति शौकत मिर्जियोयेव गर्मजोशी से स्वागत करते हुए


ताशकन्द:, २९ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे उज़्बेकिस्तानस्य राजधानीं ताशकन्दं प्राप्तवान्, यत्र राष्ट्रपतिना शौकत-मिर्जियोयेवेन तस्य उष्णतया स्वागतं कृतम्। प्रधानमन्त्री स्वागताय राष्ट्रपतिं मिर्जियोयेवं प्रति कृतज्ञतां प्रकटयन् अवदत् यत् उज़्बेकिस्तानस्य तस्य एषा चतुर्था यात्रा उभयोः देशयोः द्विपक्षीय-सम्बन्धानां गभीरतां तेषु च निरन्तरवर्धमानां गतिं प्रदर्शयति।

ताशकन्दं प्राप्त्यानन्तरं प्रधानमन्त्री मोदी ‘एक्स्’-इत्यत्र छायाचित्राणि साझीकृत्य लिखितवान्— ‘‘ताशकन्दं प्राप्तवान्, यत्र राष्ट्रपतिना शौकत-मिर्जियोयेवेन मम उष्णतया स्वागतं कृतम्। अस्य विशेषस्य भावस्य कृते अहं तं प्रति कृतज्ञः अस्मि।’’ सः उज़्बेकभाषायामपि स्वीयं सन्देशं सहभागं कृतवान्।

तदनन्तरं प्रधानमन्त्री मोदी याङ्गी-उज़्बेकिस्तान-उद्याने स्थिते स्वातन्त्र्य-स्मारके पुष्पचक्रं समर्पितवान्। अस्मिन् अवसरे राष्ट्रपतिः मिर्जियोयेवः अपि उपस्थितः आसीत्। सैन्यसम्मानेन आयोजिते औपचारिककार्यक्रमे प्रधान-मन्त्री स्मारकस्य पुरतः कतिपय-क्षणानि स्थित्वा सम्मानं प्रकटितवान्। अनन्तरं सः राष्ट्रपतिना मिर्जियोयेवेन अन्यैः अधिकारिभिश्च सह वार्तालापं कृतवान्।

प्रधानमन्त्रिणः अगस्तमासस्य २९-३० दिनाङ्कयोः उज़्बेकिस्तानयात्रा अस्मिन् देशे तस्य चतुर्था यात्रा अस्ति। यात्रायाः अवधौ उभयोः देशयोः मध्ये व्यापारः, रक्षा, ऊर्जा, अङ्कीयसम्पर्कः, विकासस्य विविधक्षेत्रेषु च सहयोगः अधिकं सुदृढः कथं भवेत् इति विषये चर्चा भविष्यति। उभे पक्षे भारतस्य ‘विकसितभारत’स्य उज़्बेकि-स्तानस्य ‘याङ्गी उज़्बेकिस्तान’स्य च सहभाग-विकासलक्ष्याणि अग्रे नेतुं उपायानामपि विचारं करिष्यतः।

प्रधानमन्त्रिणः यात्रा तस्मिन् समये भवति यदा भारत-उज़्बेकिस्तानयोः सम्बन्धेषु सहयोगस्य नूतनक्षेत्राणां विस्तारः भवति। उभे देशे राजनैतिक-आर्थिक-सुरक्षात्मक-ऊर्जासम्बद्ध-अङ्कीय तथा सांस्कृतिक-क्षेत्रेषु स्वसम्बन्धान् अधिकं गतिशीलान् कर्तुं बलं दत्तम् अस्ति।

Hindusthan Samachar / Divya Ranjan